संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीहायनाधिनाथस्तोत्रम्

श्रीहायनाधिनाथस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


देवालीड्यान्नुतरिपुहरान् भक्तमागीर्जितेन्द्र -
देवाचार्यान् हृतकुमरणांस्त्यक्तसर्वाप्यपादान् ।
द्रव्यातीतान् सकरुणहृदो विष्णुशम्भ्वादिरूपान्
वन्दे नित्यं दुरितशमनान् हायनस्थाधिनाथान् ॥१॥
इष्टातीदान् भुजगपतिनुतान् कान्तिदेदीप्यमानान्
मौनिध्येयान् परमपददान् भक्तिमत्कल्पवृक्षान् ।
राज्यस्प्रष्ट्टन् मृदुलहृदयॉंस्तत्त्वविज्ञानदातॄन्
वन्दे नित्यं दुरितशमनान् हायनस्थाधिनाथान् ॥२॥
भीतिघ्नार्चान् हलनतरुजानुद्धतोच्छेदसक्तान्
पुष्पाल्यर्चान् यमिनुतपदान् देवदैत्याहृताङ्घ्रीन् ।
क्षान्त्यम्भोधीन् प्रशममुखदाञ्छ्रान्तिविच्छेददक्षान्
वन्दे नित्यं दुरितशमनान् हायनस्थाधिनाथान् ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP