संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीरतिसुति:

श्रीरतिसुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


निजसन्नतनिकरेष्टदसुरभूमिजहृदयां
भवसाध्वसमुखभञ्जकचरणामृतजनुषम् ।
भ्रमराम्बुदभुजगद्युतिकवरीभररुचिरां
कलये हृदि सुमपञ्चकनिजकार्मुकरमणीम् ॥१॥
निजभास्वरकरहापितसरसीरुडभिमतिं
शरदम्बुजनिभनिर्मलवसनावृतवपुषम् ।
प्रतिपादितचरणाम्बुजरतकाङ्घ्रितनिचयां
कलये हृदि सुमपञ्चकनिजकार्मुकरमणीम् ॥२॥
अमृताशनललनामणिततिसेवितचरणां
निखिलावनिजनकामितपदनुग्रहकणिकाम् ।
स्मृतपादुकजनतोद्धतिहृदयङ्गमचरितां
कलये हृदि सुमपञ्चकनिजकार्मुकरमणीम् ॥३॥
सरसीरुहवदनाम्बुजदृशितोषणनिपुणां
विहितानतभवमोचितशरणागतविततिम् ।
प्रणतार्तिहकरुणामृतरसपूरितनयनां
कलये हृदि सुमपञ्चकनिजकार्मुकरमणीम् ॥४॥
त्रिदिवालयतरुणीमणिगणसंस्तुतचरणां
कुशिकोद्भवमुखमौनिपविदितप्रियविभवाम् ।
नतकाङ्क्षितकनकादिभवरदापननिपुणां
कलये हृदि सुमपञ्चकनिजकार्मुकरमणीम् ॥५॥
कनकच्छविपरिहासकतनुदीपितलसितां
बहुदु:खदभवसागरवडावामुखनमनाम् ।
कनकावनिधरधिक्कृलिचणवक्षसिजनुषं
कलये हृदि सुमपञ्चकनिजकार्मुकरमणीम् ॥६॥
वनधारकपवनाशननिभमेचकचिकुरां
विनतावलिविहिताखिलदुरिव्रजदहनाम् ।
विनतातनुजनुरर्चितपदपङ्कजयुगलीं
कलये हृदि सुमपञ्चकनिजकार्मुकरमणीम् ॥७॥
ललितावरहापितविधवात्वजकलिलां
परितोषितमतिभीमकतनुजां यदुरमणाम् ।
रिपुशम्बरकृतयिकरणमोचितरमणां
कलये हृदि सुमपञ्चकनिजकार्मुकरमणीम् ॥८॥
चरणामृतजनियुग्मकनमदिष्टदधिषणां
पदसेवनरतमानसजनकष्टहकरुणाम् ।
पठतामिदमनिशं निजचरणाष्टकमचिरात्
कलयिष्यति कलिनाशकविभवाष्टकमखिलम् ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP