श्रीलक्ष्मीदेवीस्तुति:
स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.
भगीरथमुखार्चिते भजदभीष्टकल्प्लद्रुम
भुजङ्गघनकुन्तले भ्रमनिवारकाङ्घ्रिस्मृते ।
भवाब्जनयनाम्बुभूभवमुखामराल्यर्चिते
भवाब्जभववल्लभे भवभयापहे भूतये ॥१॥
करास्तकमलस्मयां सरसिजातजातप्रियां
परास्तरुचिपारदां विजितपारदां शारदाम् ।
परात्परविबोधदां स्थिरतरालिभव्यप्रदां
धरातिकठिनस्तनीं हरसहोदरीं भावये ॥२॥
नतान्प्रति सुसौम्यतां गमितसौम्यमुख्यग्रहां
श्रुतिप्रचयगम्यधीलसितगम्यपादाम्बुजाम् ।
मनोजपितृकाम्यतासुभगरम्यवर्ष्माशया -
नुरूपगुणरम्यतां रुचिरधर्म्यधीदां भजे ॥३॥
कृतिप्रभृतिकान्तसत्कृतपदे कृपाणादिधृत् -
कृताङ्घ्रिनमनव्रजे कृतकृतातिरेकेक्षणे ।
कृतान्तरिपुसोद्भवे कृतकृतान्तभीकृन्तने
कृतार्थनिकरायसृत्कृतनमस्कृते पाहि माम् ॥४॥
वनप्रियवरप्रदे विनतवोनवाहाद्रिजेड् -
धनस्तनकठोरतावनतमस्तकक्ष्माधरे
धनच्छविशिरोरुहे कनककुक्षिकान्तेsव माम् ॥५॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP