संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीभृगुप्रभूभृगुतनुजा ( कवीन्दिराकमलदृक् ) स्तव:

श्रीभृगुप्रभूभृगुतनुजा ( कवीन्दिराकमलदृक् ) स्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भजज्जनव्रजदिविजक्षमारुहो
भवोद्भवाखिलभवहृत्पदस्मृतीन् ।
भुजङ्गमभ्रमररुचिस्वशीपर्जान्
भृगुप्रभुभृगुतनुजाहरीन् भजे
( कवीन्दिराकमलदृशो विभावये ) ॥१॥
करप्रभाविजितसर: स्वसम्भवाम्
छरच्छरस्पृशदमलस्ववासस: ।
स्वरावलीजितरणधीमनोहरान्
कवीन्दिराकमलदृशो विभावयै ॥२॥
पदाम्बुभूनतजनकाम्यवस्तुदान्
पुलोमजोन्मुखसुरनम्यपादुकान् ।
अनुग्रहप्रियमतिरम्यमानसान्
कवीन्दिराकमलदृशो विभावयै ॥३॥
कृतान्तजप्रमुखभयव्रजान्तकान्
कृपाम्बुधीविहितनिजामलाशयान् ।
कृतार्थतास्पृशिनिपुणस्वपूजनात्
कवीन्दिराकमलदृशो विभावयै ॥४॥
तिलोत्तमाप्रमुखसुराङ्गनार्चितॉं -
स्तिलप्रियप्रमुखबहुग्रहादृतान् ।
कनत्कनकधनाभावर्ष्मकान्
कवीन्दिराकमलदृशो विभावयै ॥५॥
पदामृतप्रभवनमद्वरप्रदान्
भवार्ण व प्रपतित भक्तपारदान् ।
कचप्रभाविभवपरास्तनीरदान्
कवीन्दिराकमलदृशो विभावयै ॥६॥
अतिद्रुतं पदविनताधकृन्तकान्
नमस्कृतान् प्रियविनतात्मजादिभि: ।
प्रसादसत्कृतसनकादिमौनिन:
कवीन्दिराकमलदृशो विभावयै ॥७॥
कणादनप्रमुखनयप्रदर्चनाम्
रणादिमे विजयवरप्रदायकान् ।
ऋणामयप्रभृतिरिपुप्रभञ्जकान्
कवीन्दिराकमलदृशो विभावयै ॥८॥
अशेषसुप्रजनककष्टनाशकं
कवीन्दिराहरिकृपयेष्टदायकम् ।
पठन्नद:स्तवनप्रशष्टकं
द्रुतं ध्रुवं भवेदणिमामुखाष्टकापद [ ष्टद ] म् ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP