संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीडाकोरक्षेत्रे श्रीडङ्कपुरीनिलयाषोडशीस्तुति:

श्रीडाकोरक्षेत्रे श्रीडङ्कपुरीनिलयाषोडशीस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


गिरिजेशहरिस्मरपद्मजनु: - शुकनारद - संस्तुतपाद - युगीम् ।
निखिलत्रिजगज्जनताजननीं - कलये हृदि डङ्कपुरीनिलयाम् ॥१॥
पदपङ्कजभक्तजनालिमनोरथपूरणसत्तहृदम्बुभवम् ।
रथदन्तिमुखप्रदलेशकृपां कलये हृदि डङ्कपुरीनिलयाम् ॥२॥
त्रिजगत्सृजिकर्तृजनिस्थलवार्भवमण्डितनाभिहृदभरविम् ।
मितिहेतुविहीनकृपाजलधिं कलये हृदि डङ्कपुरीनिलयाम् ॥३॥
प्रणतालिवशीकृतसर्वकलां विजेतेन्द्रियलभ्यपदाम्बुजनिम् ।
नतहर्षपयोधिपयोधिजनिं कलये हृदि डङ्कपुरीनिलयाम् ॥४॥
उडुवल्लभकोटिविजिष्णुनिजस्मितसुन्दरवक्त्रसरोजनुषम् ।
उरगाधिपसंस्तुतकीर्त्तिपदां कलये हृदि डङ्कपुरीनिलयाम् ॥५॥
अखिलत्रिदशालिकिरीटमणिच्छविराजिविराजिपदाम्बुजनिम् ।
नतवाञ्छितदानरतात्ममतिं कलये हृदि डङ्कपुरीनिलयाम् ॥६॥
त्रिदिवालयशस्त्रुचयासुहर - स्वरथावयवोरसिवासरताम् ।
अखिलर्द्धिसमृद्धिवितारिनतिं कलये हृदि डङ्कपुरीनिलयाम् ॥७॥
निजवल्लभपङ्ग्कजभूगिरिशप्रमुखाखिलनिर्जरसेव्यपदाम् ।
नतलिप्सितवैभवसञ्चयदां कलये हृदि डङ्कपुरीनिलयाम् ॥८॥
अमितानतदीनजनालिकृपा - जनिभूत्वविभास्वरहृत्कमलाम् ।
निजपार्श्वगवाग्जननीगिरिजां कलये हृदि डङ्कपुरीनिलयाम् ॥९॥
सुषमाकरुणामृतनीरधिता - विलसद्रुचिरात्मतनूधिषणाम् ।
पदनम्रपुलोमभवाप्रमुखां कलये हृदि डङ्कपुरीनिलयाम् ॥१०॥
नयनाङ्घ्रिकणादनकर्दमजाहिपजैमिनिमुख्यनुतस्वपदाम् ।
हरिणाङ्कसहोदरनैजतनुं कलये हृदि डङ्कपुरीनिलयाम् ॥११॥
प्रणतेहपरोभयसर्वमुख - स्पृशितत्परपण्डितदिव्यधियम् ।
अधरानतनिर्जितबिम्बविधु कलये हृदि डङ्कपुरीनिलयाम् ॥१२॥
प्रणवप्रतिपाद्यतनुं सशिखा प्रतिपादयति श्रुतिगीरपि याम् ।
प्रणवादिनिषक्तजनाप्यपदां कलये हृदि डङ्कपुरीनिलयाम् ॥१३॥
चतुरास्यकलत्रसितेतरकन्धरदारविराजितपार्श्वयुगीम् ।
दिविजव्रजपूजितधूलिलवां कलये हृदि डङ्कपुरीनिलयाम् ॥१४॥
नमतां जवतोsखिलकष्टहृति - प्रवणेष्टवितारिपदाब्जनतिम् ।
[ मुनिमानसवासिपदाम्बुजनिं ] कलये हृदि डङ्कपुरीनिलयाम् ॥१५॥
शुभतोटकवृत्तवराभिहितैर्वरतोटैकवृत्तविबोधकरीम् ।
जितहाटकभाखिलवर्ष्मरुचिं कलये हृदि डङ्कपुरीनिलयाम् ॥१६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP