संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीगङ्गायमुनास्तुति:

श्रीगङ्गायमुनास्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


मानविहीनजनुर्गणसञ्चितपापविनाशकुदम्बुपदाब्जे
शङ्करपद्मजनारदकीरभगीरथमुखसमादृतनीरे ।
हेतुविहीनविमानकृतामृतशेवधितोल्लसदात्महृदब्जे
नौमि निलिम्पनदीदिननायकवर्ष्मभवे हृदयेsहमजस्रम् ॥१॥
दिव्यरथेभतुरङ्गपदातिमुखावयवव्रजसाङ्गितराज्या -
धीश्वरताप्रमुखाखिलकाङ्क्षितपूरकपण्डितलेशकटाक्षे ।
पर्वतराअज्सुतापतिदुग्धपयोनिधिवर्ष्मभवाधवकान्ते
नौमि निलिम्पनदीदिननायकवर्ष्मभवे हृदयेsहमजस्रम् ॥२॥
रागविहीनमन: सुलभे प्रणतव्रजमोदसमुदशशाङ्कौ
सर्वकलाप्रदपादनुती शशि८शेखरयादवपुङ्ग वसक्ते ।
पन्नगभूषितमस्तकधृद्भुजगेन्द्रफणामणिशोभितकान्ते
नौमि निलिम्पनदीदिननायकवर्ष्मभवे हृदयेsहमजस्रम् ॥३॥
भूधरभूपतिवर्ष्मभवासरिदोशकलेवरजन्मसपत्न्यौ
नैजपदाम्बुजयुग्मनमस्कृतिकृन्निखिलेप्सितदापनदीक्षे ।
पाकरिपुप्रमुखाखिलदैवतकोटिकिरीटनिघृष्टपदाब्जे
नौमि निलिम्पनदीदिननायकवर्ष्मभवे हृदयेsहमजस्रम् ॥४॥
कामहफालनिजाश्रयभुक्शिशुपालमुखासुरहृत्परिरब्धे
पङ्कजसद्मसमस्तसमृद्धिवितारिकटाक्षलवेन मनोज्ञे ।
आदरतो द्रुतमीप्सितदे गणनाथमनोभवमुख्यनुताङ्घ्रे
नौमि निलिम्पनदीदिननायकवर्ष्मभवे हृदयेsहमजस्रम् ॥५॥
दत्तशिवाच्युतचित्तरए मितिहीनकृपामृतजन्मधरित्र्यौ
देवमुखाभललाटरुचीत्रि९दिवेशकलत्रमुखार्चितपादे ।
अङ्गमनोहरताभरिते शरणागतदीनकृपामृतराशी
नौमि निलिम्पनदीदिननायकवर्ष्मभवे हृदयेsहमजस्रम् ॥६॥
शोतकराभहृदम्बुभवे कणभुड्मुखशास्त्रवितारिकटाक्षे
बिम्बनिभाधरबिम्बरुची हरिपादपयोजकलिन्दसमुत्थे ।
स्पर्शवीक्षणचिन्तनत: सुलभीकृतपातकनाशनिमाम्बू
नौमि निलिम्पनदीदिननायकवर्ष्मभवे हृदयेsहमजस्रम् ॥७॥
ॐमनुमुख्यजपाप्यपदे श्रुतिवेदशिरस्ततिगीतपदाब्जे
सर्वशुगावलिहन्तृनती द्रुहिणाण्डकदम्बकविस्तृतकीर्त्ती ।
सरबहिर्विषयव्रजतो विमुखीकृतधीसुलभाङ्घ्रयुगीक्षे
नौमि निलिम्पनदीदिननायकवर्ष्मभवे हृदयेsहमजस्रम् ॥८॥
अन्धकशासनमस्तकगामधुकैटमसूदनलालितकाये
नैजकलेवरकान्तिविनिर्जितपूर्णशशाङ्कनवामृतवाहौ ।
वारुणकीरमुखेदितसर्वशुभव्रजदायिपदाम्बुजशक्ती
नौमि निलिम्पनदीदिननायकवर्ष्मभवे हृदयेsहमजस्रम् ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP