संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीपाण्डुरङ्गस्तव:

श्रीपाण्डुरङ्गस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


निजपादपयोजनुर्नमस्कृन्निकरेष्टप्रदकल्पभूमिजातम् ।
अतिभीकरसंसृताभिधाम्भोनिधिपोतं कलयामि पाण्डुरङ्गम् ॥१॥
गगनोद्भवभोजिषट्पदाम्भ:पदनीकाशनिजोत्तमाङ्गजातम् ।
करकान्तिविनिर्जिताम्बुजाताखिलदर्पं कलयामि पाण्डुरङ्गम् ॥२॥
शरदम्बुदशङ्खचन्द्रमच्छिविजिष्णुद्युतिवस्त्रवेष्टिताङ्गम् ।
पदनम्रवरव्रजप्रदानप्रियचित्तं कलयामि पाण्डुरङ्गम् ॥३॥
तनुकान्तिमनोज्ञतादिसम्पज्जनिसद्मस्मरमातृकाम्यमूर्त्तिम् ।
जगतीत्रयधातृशम्भुमुख्यामरनम्यं कलयामि पाण्डुरङ्गम् ॥४॥
पदपङ्कजनम्रलोककाङ्क्षाधिकदानव्रतरम्यचित्तपद्मम् ।
शरणागतमृत्युमुख्यहृत्स्मरणाङ्घ्रिं कलयामि पाण्डुरङ्गम् ॥५॥
बहुकष्टपरम्परानुभूतिश्रमदीनानतिकृत्कृपासुधाब्धिम् ।
धरणीगुरुशङ्करार्यमुख्य - प्रणताङ्घ्रिं कलयामि पाण्डुरङ्गम् ॥६॥
कनकप्रमुखाखिलेष्टलब्ध्यैचरणाब्जाश्रिकाम्यकाङ्घ्रिपद्मम् ।
भवनीरधिपारलब्धये यमिवन्द्यं कलयामि पाण्डुरङ्गम् ॥७॥
विन्ताघहृतिव्रताढ्यपादाम्बुजधूलीलवसंस्मृतादिलेशम् ।
विनतातनुजातवाहरूपान्तररम्यं कलयामि पाण्डुरङ्गम् ॥८॥
प्रणताभयदानकाङ्क्षितार्थस्पृशिमुद्राविलसत्कराम्बुजातम् ।
कणभुङ्नयनाङ्घ्रिमुख्यशास्त्रव्रजदाङ्घ्रिं कलयामि पाण्डुरङ्गम् ॥९॥
पदसन्नतकष्टनाशपूर्वं विहिताभीष्टसमस्तवस्तुदानम् ।
वदनाधरधूतवारिराश्युद्भवबिम्बं कलयामि पाण्डुरङ्गम् ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP