संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीश्रीनृसिंहप्रह्लादस्तुति:

श्रीश्रीनृसिंहप्रह्लादस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


सरागद्वेषाद्याशयजनततेरत्यन्तदूराङ्घ्रिकान्
विरागस्वान्तालीसुलभचरणाम्भोजातयुग्मेक्षणान् ।
सुराधीशाम्भोधिप्रमुखबलिमुख्यैर्देवासुरैरादृतान्
भजे श्रीमल्लक्ष्मीनरमृगपतिप्रह्लादाकान् सन्ततम् ॥१॥
वराका मूकाश्च प्रणतिलवतो यत्पादयोर्निश्चितं
गिरा जीवं राया धनपतिमपि द्राग्घ्रीमत: कुर्वते ।
जरादुर्मृत्यादिप्रशमनरतस्वीयाङ्घ्रपाथोजनीन्
भजे श्रीमल्लक्ष्मीनरमृगपतिप्रह्लादाकान् सन्ततम् ॥२॥
कृपापारावारायितनिजमनोव्याजामृतप्रोद्भवान्
गिरीन्द्रन्यवकृत्स्वोरसिजनुरुरोधीनिश्चलत्वाञ्चितान् ।
करीशोत्तंसाश्वप्रवरपृतनाकोशादिसम्पत्प्रदान्
भजे श्रीमल्लक्ष्मीनरमृगपतिप्रह्लादाकान् सन्ततम् ॥३॥
स्वपादाब्जद्वन्द्वप्रणतजनतासर्वाघनिर्मूलिकान्
झरीं श्रीस्वर्धुन्या: शिरसि दधता सम्भावितान् सादरम् ।
अपाद्याशुप्रीताञ्छ्रवणनयनक्षोणीशवर्ण्याङ्घ्रिकान्
भजे श्रीमल्लक्ष्मीनरमृगपतिप्रह्लादाकान् सन्ततम् ॥४॥
शरीरश्रीधूताभिमतिकनकाम्भोधर्तृकीलालदान्
शुकाजोत्सङ्गोत्थप्रमुखमुनिसङ्गीतमाहात्म्यकान् ।
पिकाम्भोराश्यर्णोविलसितवपुर्धिक्कारिकण्ठस्वरान्
भजे श्रीमल्लक्ष्मीनरमृगपतिप्रह्लादाकान् सन्ततम् ॥५॥
सकामानम्राणामखिलहृदयाभीष्टालिसंस्पर्शकान्
विकास्यम्भोजातप्रमुखकुसुमै: सम्पूजिताङ्घ्र्यम्बुजान् ।
विकामानम्राणां दलितहृदयग्रन्थीररं कुर्वतो
भजे श्रीमल्लक्ष्मीनरमृगपतिप्रह्लादाकान् सन्ततम् ॥६॥
नराधीशानत्वप्रमुखनिखिलश्रापूगदानप्रियान्
स्वरादित्रैलोक्यस्ववसतिजनव्रातार्च्यपादाम्बुजान् ।
ज्वरार्श:कुष्ठापस्मृतिमुखरुजाचक्षु:श्रव:पक्षिपान्
भजे श्रीमल्लक्ष्मीनरमृगपतिप्रह्लादाकान् सन्ततम् ॥७॥
परार्त्तिस्पर्शादिप्रियमतितया हीनीकृतस्वानतान्
कराम्भोजभ्राजन्निखिलभयहृत्काङ्क्षाधिकश्राणकान् ।
विकारन्यस्वान्तप्रकलितपदाम्भोजातधूलीलवान्
भजे श्रीमल्लक्ष्मीनरमृगपतिप्रह्लादाकान् सन्ततम् ॥८॥
उमाकान्तब्रह्माचलरिपुजलाधीशानमुख्यामरै:
सुमालीस्वेष्वङ्गोद्भवबलिगुरुप्रोत्पादकप्राक्तनून् ।
शमाक्षालीदान्तिप्रमुखसगुणव्रातप्रदानप्रियान्
भजे श्रीमल्लक्ष्मीनरमृगपतिप्रह्लादाकान् सन्ततम् ॥९॥
श्रमालीमूलच्छिन्निजपटुरजोलेशैर्जगत्पावनान्
क्षमापाथोराशीनपदनतिकृते धर्मादिसर्वार्थदान् ।
यमादिप्रोद्भूताखिलभयहृतिप्रौढान् यमादिप्रदान्
भजे श्रीमल्लक्ष्मीनरमृगपतिप्रह्लादाकान् सन्ततम् ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP