संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीविधिहरिहरस्तवः

श्रीविधिहरिहरस्तवः

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


स्मरक्रु धागृधिमदमोहमुख्यनि -
र्जितालिदुर्लभचरणाम्बुसम्भवान् ।
विरागिसन्ततिसुलभाङ्घ्रितोयजान्
सरोजभूसरसिजदृग्धरान् भजे ॥१॥
उमारमावचनततिप्रसूशची -
मुखाङ्गनाकुलमणिगीतवैभवान् ।
भजत्कुमृत्यखिलरुजाजराहरान्
सरोजभूहरिगिरिशान् विभावये ॥२॥
निराकृतामरगुरुयक्षपेडह -
ङ्कृतिस्ववाग्धनकणिका भवन्त्यरम् ।
जडस्वधीधनरहिता यदानते:
पयोजनर्जनिहरिशङ्करान् भजे ॥३॥
सुवर्णभूधरनिवसद्धिमाद्रिभू -
सहप्रभूहिमधरसम्भवाधवान् ।
कृपार्णवस्वहृदयनीरसम्भवान्
सरोजनुर्जंनिहरिशङ्करान् भजे ॥४॥
पदाम्बुजस्मृतिसुलभीकृतेभराट् -
तुरङ्गमद्रविणचमूरथादिमान् ।
भजत्कृताखिलवृजिनव्रजापहान्
सरोजनुर्जनिहरिशङ्करान् भजे ॥५॥
फणिप्रसूश्वशुरगुरूरगाधिप -
स्वविष्टराहिमणिकृतस्वभूषणान् ।
सुवर्णवार्धरशशिजिन्निजच्छवीन्
सरोजनुर्जनिहरिशङ्करान् भजे ॥६॥
स्वरुल्लसत्करवनभूपराशरो -
द्भवाङ्गभूप्रमथगणादिसंस्तुतान् ।
पुमुत्तमाभिधपरमाक्षराकृतीन्
सरोजनुर्जनिहरिशङ्करान् भजे ॥७॥
निराकृताभिमतिखगाधिराण्मरुन् -
मनोजवं नरसकलेप्सितप्रदान् ।
श्रुतिव्रजोदितपुरुषार्थदायकान्
सरोजनुर्जनिहरिशङ्करान् भजे ॥८॥
त्रिविष्टपक्षितिरुहसंजनु:सुम -
व्रजार्चितस्वपदपय:समुद्भवान् ।
नताशयस्थगितनिजाङ्घ्रिपल्लवान्
सरोजनुर्जनिहरिशङ्करान् भजे ॥९॥
व्सुन्धराप्रमुखसमस्तलोकसं -
चयातलप्रभृतितलव्रजाधिपान् ।
वसुन्दह्राधवपदभाक्पदानतान्
सरोजनुर्जनिहरिशङ्करान् भजे ॥१०॥
कराम्बुजादृतवरदाभयादिम -
स्वमुद्रिकाविशदितहृत्प्रवृत्तिकान् ।
अपस्मृतिज्वरमुखरुङ्निवर्हणान्
सरोजनुर्जनिहरिशङ्करान् भजे ॥११॥
निराकृतासुरमतिवृत्तिकीकृत -
स्वपादुकाप्रणतिपराशयव्रजान् ।
भजन्मनोविकृतिहरस्वसंस्मृतीन्
सरोजनुर्जनिहरिशङ्करान् भजे ॥१२॥
पुलोमभूधवदिविभूमुखार्कभू -
जलाधिपानिलमुखदेवमण्गलै: ।
समर्चितस्वचरणपाथौद्भवान्
सरोजनुर्जनिहरिशङ्करान् भजे ॥१३॥
पदामृतप्रभवयुगीसमर्चना -
कणापितप्रशमदमादिसद्गुणान् ।
नतश्रमव्रजहृतिचुञ्चुसंस्मृतीन्
सरोजनुर्जनिहरिशङ्करान् भजे ॥१४॥
यमादिभीनिकरहतिप्रभाविता -
समुल्लद्यमनियमदिदायकान् ।
नतव्रजाखिलदुरितक्षमानिधीन्
सरोजनुर्जनिहरिशङ्करान् भजे ॥१५॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP