श्रीनर्मदास्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


श्रीनर्मदास्तोत्रम् [ हरनर्तनम् ]
आदितेयनुतामसंयमिदुर्लभां कुमृत्युमुखापहां [ कुमृतिक्षयां ]
प्रणतार्थगोर्धुतशक्रगुरुयमिपूजितां प्रमदप्रदाम् ।
कुम्भिराण्मुखदां कृपाम्बुधिचेतसं विधुवर्ष्मजां
शर्मदां कलये नताधनिवारिणीं हृदिं नर्मदाम् ॥१॥
क्षोणिदेशिकदेशिकादिसमर्चितां कनकप्रभां
मोक्षदानरतां स्फुटीकृततत्त्विकां प्रणतेष्टदाम् ।
भूपतामुखदां सुमालिसमर्चितां परमार्थदां
शर्मदां कलये वरास्यजगत्त्रयीं हृदि नर्मदाम् ॥२॥
निर्विकारनुतां हृताखिलरुग्ज्वरां मतिदोषहां
संसृतिश्रमहां समस्तसुरेडितां शममुख्यदाम् ।
पापपूगपरां वराभयदायिनीं वनभूदृशं
शर्मदां कलये यमादिसमस्तदां हृदि नर्मदाम् ॥३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:59.1170000