श्रीरविप्रमुखनवखेटस्तव:
स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.
भक्तसुरावनिजान् भवहर्तॄन्
भृङ्गपयोदकचाञ् छोणकरान् [ न् करशोणान् ]
शारदमेघपटान् वरदातॄन्
नौमि रवीन्दुमुखान्नव खेटान् ॥१॥
श्राणितकाम्यततीन् सुरनम्यान्
भास्वररम्यगुणान् कृतभव्यान् ।
कृत्तकृतान्तभयान् कृपयाढ्यान्
नौमि रवीन्दुमुखान्नव खेटान् ॥२॥
सन्नतपापहरान् घनदातृन्
दीनकृपाजलधीन् भयहर्त्तॄन् ।
शोणनिजाङ्घ्रियुगोजितपद्मान्
नौमि रवीन्दुमुखान्नव खेटान् ॥३॥
आनतमङ्गलदान् मरणघ्नाञ्
छौनकमुख्यनुतान् वनजाक्षान् ।
संसृतिशोकहरान् घनकेशान्
नौमि रवीन्दुमुखान्नव खेटान् ॥४॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP