संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीद्वारकालक्ष्मीस्तुति:

श्रीद्वारकालक्ष्मीस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


शश्वत्स्थायिविनश्वरार्थविभिदासंशीलताप्ताखिल -
भोग्यव्रातविरागसम्पदमलस्वान्ताप्यपादाम्बुजाम् ।
रागद्वेषमुखान्तरारिजितधीलभ्येतरस्वाङ्घ्रिकां
श्रीमद्द्वारवतीपुरीपरिवृढां सम्भावये सन्ततम् ॥१॥
पीयूषाशनदेशिकद्रविणपाहङ्कारहुङ्कर्तृता -
भ्राजन्नैजवचोविलासकमलोद्रेकत्वमाप्नोत्यरम् ।
यत्पादाब्जसकृन्नतेरपि जनुर्मौक्त्यादिदारिद्र्यवान्
श्रीमद्द्वारवतीपुरीपरिवृढां सम्भावये सन्ततम् ॥२॥
स्वर्णक्ष्माधरजाधराधिपसुतापूर्वोद्भवानुष्ठोता -
नन्तामन्दतुलादिवर्जिततप:साम्राज्यफाल्याञ्चिताम् ।
संसारानलतप्तसन्ततसुधाधाराधराङ्घ्रिस्मृतिं
श्रीमद्द्वारवतीपुरीपरिवृढां सम्भावये सन्ततम् ॥३॥
वीक्षामात्रलवापनीतचरणाम्भोजातभृङ्गायित -
स्वान्तव्रातजनुश्चयार्दितमहापापोपपापावलिम् ।
नागेट्स्यनदनवाजिकोशपृतनामुख्याखिलश्रीप्रदां
श्रीमद्द्वारवतीपुरीपरिवृढां सम्भावये सन्ततम् ॥४॥
प्रोद्यद्घस्रमहीशदीधितिततिस्पर्शातिदेदीपित -
तप्तस्वर्णपयोजगर्भंनिखिलाहङ्कारहङ्कारिकात् ।
नागाधीश्वरनैजतल्पहृदयाम्भोजातचण्डच्छविं
श्रीमद्द्वारवतीपुरीपरिवृढां सम्भावये सन्ततम् ॥५॥
पार्थाय स्वधवेन बोधितमभूत्सर्वोत्तमं वस्तु यद् -
ब्रह्माख्यं क्षरतोsक्षरादपि परं तत्प्रापकाख्याक्षराम् ।
कृष्णादीपसमुद्भवाब्दववपुर्गीतस्वमाहात्म्यिकां
श्रीमद्द्वारवतीपुरीपरिवृढां सम्भावये सन्ततम् ॥६॥
आम्नायालितदीयशीर्षगदितान् धर्मादिमोक्षान्तिमान्
सर्वार्थान् युगपत्प्रदातुमिव सञ्जातां चतुर्भिर्भुजै: ।
आशीर्वादसमीहकानततते: सर्वेप्सितप्रापिकां
श्रीमद्द्वारवतीपुरीपरिवृढां सम्भावये सन्ततम् ॥७॥
एकच्छत्रलसत्स्वशासनमहाच्छायान्यगासादिता -
शेषक्षोणिभुव: स्वरादिसकलत्रैलोक्यवर्तिप्रजाम् ।
फुल्लाब्जोत्पलपङ्कजन्मतुलसीमल्लीमुखैरर्चितां
श्रीमद्द्वारवतीपुरीपरिवृढां सम्भावये सन्ततम् ॥८॥
कुष्ठापस्मृतिसन्निपातधरणीपालीययक्ष्मज्वर -
मूर्च्छोन्मादमुखाखिलामयचयोच्छेदप्रवीणस्मृतिम् ।
नम्रालीहृदयान्धकारजनकब्रह्मात्मभेदापहां
श्रीमद्द्वारवतीपुरीपरिवृढां सम्भावये सन्ततम् ॥९॥
भोजक्ष्मापतिपूतनाकुवलयापीडावनीसञ्जनु: -
कारूषाधिपडिम्भपालधरधुन्मुख्यासुहप्रेयसीम् ।
क्षोणीनायकाप्रमुख्यविनमत्सर्वेष्टदानव्रतां
श्रीमद्द्वारवतीपुरीपरिवृढां सम्भावये सन्ततम् ॥१०॥
बाह्याशेषपदार्थजालतृणवत्तुच्छत्वविज्ञानते
निर्धूताखिलकामनाशयततिध्यातस्वपादाम्बुजाम् ।
शङ्खस्यन्दनपद्भयघ्नवरदभ्राजत्कराम्भोरुहां
श्रीमद्द्वारतीपुरीपरिवृढां सम्भावये सन्ततम् ॥११॥
अम्भोभूनवमल्लिकाम्रकलिकानीलोत्पलाशोकद्रु - [?]
पाण्यग्रेभवतातशात्रवशिरोरत्नांशुराजत्पदाम् ।
वाणीशैलसुताप्रमुख्यमहिलागीतापदानां मुहु:
श्रीमद्द्वारवतीपुरीपरिवृढां सम्भावये सन्ततम् ॥१२॥
भूयोsनन्तभवाख्यसंसृतिमहावाराशिमग्नस्वपात् -
पाथोजाश्रितदीनलोकनिखिलश्रान्तिव्रजोन्मूलिनीम् ।
चेत:शान्तिबहि:स्वदान्त्यकुशलक्षान्तिप्रमुख्यप्रदां
श्रीमद्द्वारवतीपुरीपरिवृढां सम्भावये सन्ततम् ॥१३॥
भक्ताल्यै यममुख्यसाध्वसततेरुच्छेदनार्थं द्रुतं
सानन्दं यममुख्यभूमिविलसद्योगाधिपत्यप्रदाम् ।
हेरम्बाद्यनिवार्यविघ्नदमहापापेभपञ्चाननं
श्रीमद्द्वारवतीपुरीपरिवृढां सम्भावये सन्ततम् ॥१४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP