संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीभुजगमहीशशायितनुभूरमणीस्तव:

श्रीभुजगमहीशशायितनुभूरमणीस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भजदखिलेप्सितस्पृशिविनिर्जितकल्पलतां
भवनिजनामकाब्धिजनमन्निखिलार्त्तिहराम् ।
[ भ्रमर ] भुजगपयोधरानिलभुगाभशिर:प्रभवां
भुजगमहीशशातितनुभूरमणीं कलये ॥१॥
करविनितारितामृतभवाखिलगर्वततां
शरदुदकप्रदाभवसनान्तरिताङ्गलताम् ।
चरणनमस्त्रमूदसकलेप्सितदाङ्घ्रिनतां
नरकनिषूदनोद्भवतनौ कलये निरताम् ॥२॥
घनतरनीरदाभिमतवारकनैजकचां
सुविमलशारदाम्बुधरसन्निभवस्त्रवृताम् ।
विरचितपारदच्छवितिरस्कृतिकायरुचिं
शुकमुनिनारदार्चिततनूजसतीं कलये ॥३॥
सुरललनालिनम्यनिजपादपयोजयुगीं
त्रिभुवनजिष्णुकाम्यललिताकृतनैजतनुम् ।
श्रुतिनिकरार्थगम्यगरिमादिसतीं पुरुषौ -
त्तमतनुजातधर्म्यमहिलां प्रणमामि रतिम् ॥४॥
नतिलवकृत्कृतान्तभयकृन्तनतत्परता -
प्रमुखलसत्कृपापरवशत्वमनोज्ञधियम् ।
विहितकृतान्तकृन्तललाटनिजाश्रयमुत् -
प्रसरकृतान्तकृष्णतनुभूदयितां कलये ॥५॥
अनवरतप्रमोदभरभासि हृदम्बुजनु -
र्विनतजनाल्यशेषदुरितालिहरच्चरणम् ।
विनतविनीतचित्ताविनतातनुताङ्गलसत् -
तनयकलत्ररत्नमनिशं हृदये निदधे ॥६॥
घनतरपीनतोच्छ्रयमुखाखिललक्षणभाक् -
कनककनन्महाधरणिधृत्परिपन्यिकुचाम् ।
कनकमहामणिव्रजलसत्कनकाङ्गलतां
वनजनिनाभपुत्ररमणीं कलये सततम् ॥७॥
अतिचकितैणिकानयनडम्बरहापिदृशं
विरचितवीणिकाक्वणनदक्षकरप्रजनिम् ।
सुरुचिरवेणिकाच्छविविलज्जितवायुमजं
दरवरपाणिकात्मजसतीं कलयामि रतिम् ॥८॥
भवभवकष्टक्रुन्तनपुरस्सरमिष्टतत -
प्रदमिदमष्टकस्मरकलत्रपरं पठताम् ।
द्रुततरमष्टसिद्धिमुखकाङ्क्ष्यपदार्थलभै -
र्निखिलविशिष्टशिष्टजनताग्रिमता प्रभवेत् ॥९॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP