संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीरमामाधवनवरत्नमालास्तुति:

श्रीरमामाधवनवरत्नमालास्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


अखिलभुवनव्रातावासिप्रजोद्धृतिकारकं
प्रणतविततेराशापूगव्रजद्रुतपूरकम् ।
अमितकरुणापारावारस्वकीयहृदम्बुजं
हृदयकमले वन्देsजस्रं रमाधवमच्युतम् ॥१॥
रथगजमुखाशेषश्रीयुड्महीश्वरताप्रदं
जलनिधिजनुर्वर्ष्मोत्तंसाहृदम्बुजभास्करम् ।
प्रणतजनताहर्षाम्भोधिक्षपेश्वरसन्ततिं
हृदयकमले वन्देsजस्रं रमाधवमच्युतम् ॥२॥
जितनिजमन:प्राणाक्षादिद्रुताप्यपदाम्बुजम्
उरगनिकरक्शोणीपालस्वतल्पमचर्चिकम् ( मतल्लिकम् ) ।
उडुपनिचयाशेषाहङ्कृत्यरातिनिजस्मितं
हृदयकमले वन्देsजस्रं रमाधवमच्युतम् ॥१॥
अशुभततिकृन्मूलाविद्यानिकृन्तससंस्मृतिं
प्रणतजनतासर्वाभीष्टप्रदाननिजव्रतम् ।
दिविजमुकुटभ्राजद्रत्नप्रभालिलसत्पदं
हृदयकमले वन्देsजस्रं रमाधवमच्युतम् ॥४॥
गगनजमनोवेगस्पृष्टार्खिलानतभूतिदं
सरसिजजनिश्रीदुर्गादिस्तुतस्वपदाम्बुजम् ।
वरुणनिलयप्रोत्थागाढोपगूढलेवरं
हृदयकमले वन्देsजस्रं रमाधवमच्युतम् ॥५॥
सपदि विहितानम्राभीष्टाधिकर्द्धिवितारणं
निरवधिकृपाजन्मक्शोणीमनोज्ञनिजाशयम् ।
नतनिटिलदुर्लेखव्रातप्रमार्जनपण्डितं
हृदयकमले वन्देsजस्रं रमाधवमच्युतम् ॥६॥
त्रिदशललनाव्रातोद्गीतापदानविशिष्टतं
कणभुगहिराण्मुख्यप्रोक्ताखिलार्थततिप्रदम् ।
भ्रमरजलधृद्भोगिच्छायस्वकीयवपुर्वरं
हृदयकमले वन्देsजस्रं रमाधवमच्युतम् ॥७॥
श्रुतिनिगदिताशेषार्णार्थोल्लसल्प्रणवाकृति
प्रणवमुखरोपायाप्यस्वपादवनोद्भवम ।
विषयविमुखस्वान्तान्ताक्षालीस्तुतस्वपदाम्बुजं
हृदयकमले वन्देsजस्रं रमाधवमच्युतम् ॥८॥
पुरुनिजरुचा बिम्बन्यक्कृद्रदच्छदभूषितं
भुवि च दिविचाशेषानन्दप्रदानपटुस्मृतिम् ।
अखिलxभदानिष्टालीघ्नस्वपादरज:कणं
हृदयकमले वन्देsजस्रं रमाधवमच्युतम् ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP