संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीडङ्कपुरकमलालयास्तव:

श्रीडङ्कपुरकमलालयास्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भजदावलीसकलेप्सितस्पृशिधूतकल्पलतास्मृतिं
भवनामभीकरनीरराशिविशोषकौर्वधनञ्जयम् ।
भुजगेश्वराम्बुवितारकभ्रमरभ्रमप्रदकुन्तलां
कलयामि डङ्कमुनीन्द्रपत्तननायिकां कमलालयाम् ॥१॥
चरणानतेष्टवितारिणीं करनिर्जितामृतसम्भवां
शरदम्बुदायकडम्बरापहवस्त्रवेष्टितविग्रहाम् ।
वरदानरूपनिजैककार्यपरायणात्महृदम्बुजां
कलयामि डङ्कमुनीन्द्रपत्तननायिकां कमलालयाम् ॥१॥
जगतीत्रयातुलसुन्दरामरतातकाम्यकलेवरां
निखिलत्रिविष्टपसुन्दरीनिकुरम्बनम्यपदाम्बुजाम् ।
रमणानुकूलमतित्वनम्रकृपादिरम्यगुणाञ्चितां
कलयामि डङ्कमुनीन्द्रपत्तननायिकां कमलालयाम् ॥१॥
कृतकृत्यताप्रदपादसंस्मृतिलेशमात्रनिजाङ्घ्रिकां
कृतपादभक्तिकृतान्तकृन्तनपण्डितैककृपालयाम् ।
कृतकृष्णचन्द्रतनूपगूहनभाग्ययोग्यवृषावलिं
कलयामि डङ्कमुनीन्द्रपत्तननायिकां कमलालयाम् ॥१॥
पदपङ्कजानतमेनकामुखदेवतामहिलाव्रजां
निजपार्श्वयुग्मगमेनकातनुजापयोजजवल्लभाम् ।
शिवकीरनारदशौनकादिमुनिस्तुताङ्घ्र्यपदानिकां
कलयामि डङ्कमुनीन्द्रपत्तननायिकां कमलालयाम् ॥१॥
बहुयत्नशोधितपारदद्युतिदर्पहद्युतिविग्रहां
भवनीरशेवधिपारदानमुखाखिलेष्टवरप्रदाम् ।
धननीरपूरितनीरदच्छविजित्वरच्छविकुन्तलां
कलयामि डङ्कमुनीन्द्रपत्तननायिकां कमलालयाम् ॥१॥
विनतावलीकृतसर्वपातकभस्मसात्कृतिपण्डितां
विनतातनूभववाहनोरसि नित्यवासपरायणाम् ।
घनपीनतुङ्गनिरन्तरोरसिजातधूतधराधरां
कलयामि डङ्कमुनीन्द्रपत्तननायिकां कमलालयाम् ॥१॥
वरवीणिकाधरमौनितल्लजपाणिपद्मसमर्चितां
विजितैणिकाम्बकरागसम्भ्रमवीक्षिताम्बुजलोचनाम् ।
निजवेणिकाजितषट्पदां कणभुक्प्रमुख्यनयप्रदां
कलयामि डङ्कमुनीन्द्रपत्तननायिकां कमलालयाम् ॥१॥
प्रणतालिकष्टपरम्पराविनिवारणादिपुर:सरं
हृदि चिन्तितेष्टदपादपङ्कभुव: स्वभूरमणीमणे: ।
नतिपूर्वमष्टकमेतदेकरताशयं पठतां नृणाम्
अतितूर्णमष्टनिजाङ्गसंयुतयोगसिद्धिरियाद्वशम् ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP