संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीमहिषेसहस्रषोडशीस्मरगुरुस्तोत्रम्

श्रीमहिषेसहस्रषोडशीस्मरगुरुस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


रतिस्वान्ताम्भ:सम्भवदिनमणिक्रोधलोभप्रमोहा -
वलेपादिस्वारिव्रजविवशधीलभ्यभिन्नाङ्घ्रिपद्माम् ।
निरागाम्भोराशिस्वहृदयसरोजाततूर्णाप्यपादां
भजे क्षीराम्भोधिप्रभववपुषं सन्ततं नौमि देवीम् ॥१॥
विडौजोवारीशप्रभुशुचिदिनाध्यघ्यक्षरात्रीशमुख्या -
मरैर्विन्ध्यालीशप्रमुखदितिभूसत्तमै:स्वार्चिताङ्घ्रिम् ।
पदाम्भोजासक्तस्वहृदयजरादुर्मृतिघ्नस्ववीक्षां
भजे क्षीराम्भोधिप्रभववपुषं सन्ततं नौमि देवीम् ॥२॥
दरिद्रेशा विधालवविरहिताश्चापि यत्पादपाथो -
भवद्वन्द्वस्मृत्या निजविभवगीर्वैभवेनातिशीघ्रम् ।
धनाधीशं नाकिव्रजपतिगुरुं ह्रेपयन्तेsतिचित्रं
भजे क्षीराम्भोधिप्रभववपुषं सन्ततं नौमि देवीम् ॥३॥
षडूर्मिव्याप्ते संसृतिसलिलधौ दुस्तरे पारहीने
निमग्नानां स्वाङ्घ्रिप्रवणमनसां कारूनोवारिराशिम् ।
सुवर्णक्षोनीधृत्तनुजनिजनु:पूर्वजाप्राणकान्तां
भजे क्षीराम्भोधिप्रभववपुषं सन्ततं नौमि देवीम् ॥४॥
स्वपादाम्भोजातभ्रमरनिजहृत्पङ्कजानामरं या
करीन्द्राश्वानीकद्रविणरथभाक् सर्वलक्ष्मीप्रदात्री ।
पदस्मृतसङ्घातारचितदुरितारण्यदावाग्निकीलां
भजे क्षीराम्भोधिप्रभववपुषं सन्ततं नौमि देवीम् ॥५॥
शरास्याम्भोराशिस्ववदनरसस्वाननाकाशजाता
स्वकीयाशुक्षोणीरमणरसनाशक्त्यतीतापदानाम् ।
तनुच्छायालेशापजितकनकाम्भोजगर्भाभिमानां
भजे क्षीराम्भोधिप्रभववपुषं सन्ततं नौमि देवीम् ॥६॥
चतुर्वक्त्रोत्सङ्गप्रभवनिगमव्यासवर्ष्मप्रजाता -
प्रमुख्यर्षिव्रातै: सततकलितस्वीयपादारविन्दाम् ।
क्षरव्रातस्थास्तूत्तमपुरुषसम्भावितस्वापदानां
भजे क्षीराम्भोधिप्रभववपुषं सन्ततं नौमि देवीम् ॥७॥
सुखव्राताभीप्सायुतमतितया स्वाङ्घ्रिपद्माश्रितानां
समस्तेष्टस्पर्शव्रतधृतिमनोहारिसर्वस्वचेष्टाम् ।
निरीहस्वान्ताङ्घ्रिप्रवणजनताबन्धमोक्षप्रदात्रीं
भजे क्षीराम्भोधिप्रभववपुषं सन्ततं नौमि देवीम् ॥८॥
चतूरीतीन् वेदव्रजनिगदितान् पूरुषार्थान् पदाब्ज -
प्रणम्रेभ्यो दातुं युग [ प ] दिव या बाहुयुग्मद्वयाढ्या ।
सरोजातासीनां प्रथयितुमिव स्वानतस्वान्तवासं
भजे क्षीराम्भोधिप्रभववपुषं सन्ततं नौमि देवीम् ॥९॥
कृपार्द्रस्वापाङ्गप्रपतनलवै: केवलैर्भूर्भुव:स्व -
र्महोमुख्याशेषस्वरचितजगद्व्रातxक्षाप्रवीणाम् ।
चतु:पाथोराशिस्ववृतिधरणीपालतादानदक्षां
भजे क्षीराम्भोधिप्रभववपुषं सन्ततं नौमि देवीम् ॥१०॥
गलत्कुष्ठापस्मृत्यवनिपतिसन्तानयक्ष्मज्वरार्शो -
मुखाशेषव्याधिव्रजशमनकृतस्वाङ्घ्रिपद्मप्रणामाम् ।
घ्नतीं भक्तालीनां सपदि निखिलामासुरीं चित्तवृत्तिं
भजे क्षीराम्भोधिप्रभववपुषं सन्ततं नौमि देवीम् ॥११॥
स्वरोक:सङ्धारिप्रशमनकृते चक्रमुख्यायुधालीं
प्रणम्राशारत्रार्थं वरदभयहृन्मुद्रिके धारयन्तीम् ।
विकारालीहीनाशयहृदयसंस्थापितस्वाङ्घ्रियुग्मां
भजे क्षीराम्भोधिप्रभववपुषं सन्ततं नौमि देवीम् ॥१२॥
वनेजातस्वीयासनधरधरानुग्रहश्मिस्वचूडा -
मणिस्वर्गाध्यक्षामृतपतिसुताहविर्वह्निमुख्यार्चिताङ्घ्रिम् ।
प्रसूतोक्तिव्रातानगपतिसुताभासमानस्वपार्श्वां
भजे क्षीराम्भोधिप्रभववपुषं सन्ततं नौमि देवीम् ॥१३॥
पदाब्भूभक्तानां भवनिगडविच्छेदसिद्धयै जवेन
स्पृशन्तीं प्रज्ञास्पृक्शमदममुखाशेषसम्पन्निकायाम् ।
नमत्सर्वायासव्रजहृतिचणापाङ्गपातामजस्रं
भजे क्षीराम्भोधिप्रभववपुषं सन्ततं नौमि देवीम् ॥१४॥
यमादिस्वीयाङ्गांचितधरणिभृग्योगदानप्रमुख्यै -
र्यमादिपोद्भूताखिलभयततेर्मोचयन्तीं स्वनम्रान् ।
भजत्सङ्ख्यातीतप्रभवरचिताशेषपापापनेत्रीं
भजे क्षीराम्भोधिप्रभववपुषं सन्ततं नौमि देवीम् ॥१५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP