श्रीविश्वामित्रर्षिस्तुतिः
स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.
गीर्वाणेड्यस्वशक्तिं हृतकुमृतिजरं नम्रमागीर्विधूत -
स्वर्गीशाचार्यदर्पं स्मरमुखविमुखं रागहीनाप्यपादम् ।
हस्त्यादिस्प्रष्ट्टपूजं नतदुरितहरं तापसोत्तंसरत्नं
विश्वामित्रं प्रपद्येसकरुणहृदयं चित्तपाथोजमध्ये ॥१॥
श्रीकाकुत्स्थार्चिताङ्घ्रि कलिफणिगरुडं कान्तिधूताम्बुवाहं
यं शं श्रीचक्रपाणिर्निरवधिशुभदं बोधिनम्रस्वरूपं
विश्वामित्रं प्रपद्ये त्रिभुवनविदितं चित्तपाथोजमधे ॥२॥
सच्चिन्मुद्राढ्यहस्तं मतिशमलहरं रोगसङ्घातनाशं
कान्तात्रेयावतंसं यमिनुतविभवं शोषितब्रह्मलक्ष्मीम् ।
मन्तुव्रातक्षमाब्धिं श्रम [ हति ] मुखदं कृत्तनम्रश्रमालिं
विश्वामित्रं प्रपद्ये यममुखजलधिं चित्तपाथोजमध्ये ॥३॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP