संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीकृष्णचन्द्रप्रभुस्तव:

डङ्कपुरावतंसरमण - श्रीकृष्णचन्द्रप्रभुस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भक्तिस्वर्गितरुं करास्तकमलं काम्यं सुमेष्वम्बया
भीतिव्रातहरं सुवर्णवसनं नम्यं निलिम्पव्रजे: ।
भृङ्गाम्भोदकचं वरप्रदनतिं रम्याखिलस्वाङ्गकं
वन्दे डङ्कपुरावतंसरमणं श्रीकृष्णचन्द्रं प्रभुम् ॥१॥
केनादीड्यपदं कृपाजलनिधिं केशानुकृन्नीरदं
दीनानुग्रहकृत्कृतार्थकलितं क्लेशाम्बुधे: पारदम् ।
मीनाशीसहजं कृतान्तभयहं नम्रेष्टसर्वप्रदं
वन्दे डङ्कपुरावतंसरमणं श्रीकृष्णचन्द्रं प्रभुम् ॥२॥
एणाङ्कक्षयकृन्मुखं प्रणमताभीष्टब्रजश्राणकं
शोणाम्भोजपदं घनच्छवितनुं कष्टावलीकृन्तकम् ।
एणोक्षीसहितं सुवर्णमुखराशीष्टत्वदाङ्घ्रिस्मृतिं
वन्दे डङ्कपुरावतंसरमणं श्रीकृष्णचन्द्रं प्रभुम् ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP