श्रीअग्निस्तुति: [ पृथ्वी ]
स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.
विरक्तसुलभं मनोभवजिताद्यवाप्येतरं
जरापमृतिहं सुरव्रजसमर्च्यपादाम्बुजम् ।
कुबेरसुरपूज्यजिद्धनपतीकृतस्वानतं
भजामि दहनं कृपारसपयोनिधिस्वाशयम् ॥१॥
नताघशमनं निजोदरधृतद्रिगेशात्मजं
विबोधदपदं गजप्रभृतिसर्वसम्पत्प्रदम् ।
मुनिव्रजनुतं कलानिधिकराशिवक्त्रायितं
भजामि दहनं फणिक्षितिपवर्ण्यमाहात्म्यकम् ॥२॥
अभीष्टवरदाभयप्रदविबोधिमुद्राधरं
त्रिलोकशुभदं स्फुटीकृतपरात्मतत्त्वकृतिम् ।
शुगालिशमनं क्षितीश्वरपदप्रदस्वार्चनं
भजामि दहनं ज्वरप्रमुखसर्वकष्टापहम् ॥३॥
मनोविकृतिहं नमत्सुफलबन्धमोक्षप्रदं
रमापतिरतं शमप्रमुखसाधनश्राणकम् ।
यमादिभयहं श्रमव्रजनिबर्हणैकप्रियं
भजामि दहनं क्षमानिधिनिजान्तरङ्गं सदा ॥४॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP