संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीतिथ्यधिपस्तुति:

श्रीतिथ्यधिपस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


संसृतिसागरकुम्भभवान् भजदिष्टवितारककल्पमहीजान्
पाथसिसम्भवजिष्णुपदान् भुजगाम्बुदभृङ्गविजित्वरकेशान् ।
नम्रवरावलिदाननरताञ्छरदम्बुधरच्छवितस्करवस्त्रान्
वैश्रवणादिमनीरभवप्रभवावधितिथ्यधिपानहमीडे ॥१॥
निर्जरभूपतिनम्यपदांश्चरणस्मरणप्रतिपादितकाम्यान्
कृत्स्नजगत्ततिरक्षणकृत्स्वकलेवरमानससद्गुणरम्यान् ।
कृच्छ्रगताङ्घ्रिविनम्रवि [ नि ] कायकृपाब्धिकटाक्षनिमग्नकृतान्तान्
वैश्रवणादिमनीरभवप्रभवावधितिथ्यधिपानहमीडे ॥२॥
शौनकवर्णितकीर्त्तिपदान् धनमुख्यवितारकपादसमर्चान्
पारविहीनकृपाजलधीन् वनवासनसक्तमुनीश्वरपूज्यान् ।
नीरदजित्वरनीलकचान् खरसंसृतिसागरपारदसेवान्
वैश्रवणादिमनीरभवप्रभवावधितिथ्यधिपानहमीडे ॥३॥
दीनजनावनसक्तहृदो विनताखिलपापचयघ्नकटाक्षान्
पाणिधृताभयचिह्निमुखान् वनसम्भवदर्पहशोणनिजाङ्घ्रीन् ।
कारणवर्जितदानरतान् शरणागतरक्षणतुष्तहृदब्जान्
वैश्रवणादिमनीरभवप्रभवावधितिथ्यधिपानहमीडे ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP