संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीविधिहरिशंकरस्तवः

श्रीविधिहरिशंकरस्तवः

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


वाग्देवीजलनिधिजाशिवाभिकाम्यान्
वृत्रघ्नप्रभृतिनिलिम्पकोटिनम्यान् ।
कारुण्यप्रमुखगुणोत्तमालिरम्यान्
वन्देsहं विधिहरिशङ्करानजस्रम् ॥१॥
वाग्जालप्रसभकृदब्धिजातकाया -
मीनाक्षीहृदयसरोजघस्रनाथान् ।
हैरण्यओदरजलशायिनीलकण्ठान्
वन्देsहं विधिहरिशङ्करानजस्रम् ॥२॥
घस्रेशामृतधरशर्वरीशकान्तीन्
कञ्जोत्थाम्बुजदृगग्बुद्भवारिमौल्लीन् ।
मारीचस्मरशुचिजातमुख्यतातान्
वन्देsहं विधिहरिशङ्करानजस्रम् ॥३॥
पाथोजामृतनिधिभूधरस्ववासा -
हंसीशद्युगपतिपुङ्गवस्ववाहान् ।
जिह्वाग्रस्वहृदयसक्थिकान्तान्
वन्देsहं विधिहरिशङ्करानजस्रम् ॥४॥
वीणाधृद्विरचितवेणुवल्लकीधृद् -
वाणीमाधरणिधरेशसम्भवानाम् ।
पीनोर:प्रभवकलेवरोपगूढान्
वन्देsहं विधिहरिशङ्करानजस्रम् ॥५॥
एकाङ्कप्रजनतकतातशीतरश्मि -
भामाब्धिप्रभवविराजितोत्तमाङ्गान् ।
भानुश्रीघननिभपारदाभकायान्
वन्देsहं विधिहरिशङ्करानजस्रम् ॥६॥
काणादाक्षचरणदेवहूतिपुत्र -
वाय्वाशिक्षितिपतिरूपजैमिनीनाम् ।
व्यासस्य प्रथितनयालिबोधदातॄन्
वन्देsहं विधिहरिशङ्करानजस्रम् ॥७॥
भक्तेष्टस्पृशिधूतकल्पवृक्षान्
संसाराभिधजलराशिवाडवाग्नीन् ।
भृङ्गाम्भोदरभुजगाभशीर्षजातान्
वन्देsहं विधिहरिशङ्करानजस्रम् ॥८॥
हस्तश्रीविभवपरास्तपङ्कजातान्
वस्त्रन्यक्कृतशरदम्बुवाहजालान् ।
पादाम्भ: प्रभवनमद्वरप्रदातॄन्
वन्देsहं विधिहरिशङ्करानजस्रम् ॥९॥
निर्दग्धप्रणतकृताखिलाघपूगान्
संसारामृतनिधिपारदातृपादान् ।
मूर्द्धोत्थच्छविजितनीरदातृदर्पान्
वन्देsहं विधिहरिशङ्करानजस्रम् ॥१०॥
कृष्णाहिद्युतिनिजकुन्तलाड्यशीर्षान्
कृताङ्घ्रिप्रणतकृतान्तभीतिपाशान् ।
कार्पण्यक्षपणकृपाम्बुराशिचित्तान्
वन्देsहं विधिहरिशङ्करानजस्रम् ॥११॥
इष्टालीवितरणदीक्षितैकचिन्तान्
कष्टालीप्रशमनकार्यपूर्वभारान् ।
शिष्टालीसततसमर्चिताङ्घ्रियुग्मान्
वन्देsहं विधिहरिशङ्करानजस्रम् ॥१२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP