संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीदशावतार(बुद्ध)स्तोत्रम्

श्रीदशावतार(बुद्ध)स्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


कनत्स्वर्णक्षोणीसदनरमणीवर्ष्मजातप्रमुख्या -
दिहामुत्रावाप्याद्विमुखहृदयैर्लभ्यपादारविन्दम् ।
अनेकेहाश्रेणीविवशमनसां दुर्लभस्वाङ्घ्रिपद्मं
भजे मायादेवीप्रभववपुषं मूर्त्तिकारुण्यसिन्धुम् ॥१॥
सुरेशम्भोधीशाहरिनरजनीनायकस्वाश्रयाश -
त्रिलोकीप्राणात्मप्रभृतिविनुतस्वाङ्घ्रिपाथ:प्रजातम् ।
जरादुर्मृत्यादिप्रशमनपटुस्वीयपादप्रसादं
भजे मायादेवीप्रभववपुषं मूर्त्तिकारुण्यसिन्धुम् ॥२॥
नितान्तं दारिद्र्यतिशयधिषणाजाड्यभाजोsपितूर्णं
यदङ्घ्य्म्भोजातस्मृतिलववशात् स्वीयलक्ष्मीवचोभ्याम् ।
कुबेरस्वर्गार्यौं विदधति सदा ह्रीविनम्रोत्तमाङ्गौ
भजे मायादेवीप्रभववपुषं मूर्त्तिकारुण्यसिन्धुम् ॥३॥
सुधाश्युर्वीधर्तृप्रजनितवपु:क्षोणिभृत्क्षोणिभृज्जा -
सहोद्भूतस्वाङ्गं प्रचुरकरुणोद्रेकतो जन्तुमात्रे ।
कृपामुख्यादर्शायितनवतनुभ्राजमानस्वमूर्त्तिं
भजे मायादेवीप्रभववपुषं मूर्त्तिकारुण्यसिन्धुम् ॥४॥
पदाम्भोजातालिस्वमतिनिकरागण्यभिन्नस्वजन्म -
व्रजेष्वज्ञानाघान्यकृषत महाहांसि तन्मूलनाशम् ।
ततश्चद्राक्तेषां भवजलनिधे: कर्णधारावतंसं
भजे मायादेवीप्रभववपुषं मूर्त्तिकारुण्यसिन्धुम् ॥५॥
वपुलविण्यश्रीनृपतनुजतासर्वविद्याधनाली -
प्रमुख्याढ्यस्तादृक्सकलविभवभ्राजमानस्वकान्ताम् ।
समृद्ध राज्यं यस्तृणलघुतया भावयन्नौज्झदेनं
भजे मायादेवीप्रभववपुषं मूर्त्तिकारुण्यसिन्धुम् ॥६॥
श्रुतिव्रातव्यासद्रुहिणतनुभूव्यासजाताश्वघोष -
प्रमुख्यै: सामोदं निगदितलवस्वीयचारित्रलेशम् ।
भुजङ्गक्षोणीभृन्निखिलरसनावर्ण्यभिन्नापदानं
भजे मायादेवीप्रभववपुषं मूर्त्तिकारुण्यसिन्धुम् ॥७॥
मुमुक्षासन्तोषप्रजनितसुखव्रातकाङ्क्षालिहैन्य -
सकामानम्राणामपि सकलसंश्राणकाङ्घ्र्यब्जचिन्तम् ।
क्षरालीतद्भिन्नप्रकृतिपरम: पूरुषोत्तंससञ्ज्ञ:
भजे मायादेवीप्रभववपुषं मूर्त्तिकारुण्यसिन्धुम् ॥८॥
प्रगीतो गीतायां मुरमुखरिपोर्योsभवत्तत्स्वरूपं
स्फुरत्स्वीयस्वान्तप्रणतहृदयोज्ज्वालितज्ञानदीपम् ।
पुमर्थव्रातद्राग्वितरणरतवीयहृत्तोयजातं
भजे मायादेवीप्रभववपुषं मूर्त्तिकारुण्यसिन्धुम् ॥९॥
प्रफुल्लाम्भोजातस्थलसलिलभूकेतकीकुन्दमल्ली -
बृहज्जातीमुख्यै: सुरभिकुसुमै: सन्ततं पूज्यपादम् ।
समस्तब्रह्माण्डव्रजपरिवृढोपात्तनम्यस्वरूपं
भजे मायादेवीप्रभववपुषं मूर्त्तिकारुण्यसिन्धुम् ॥१०॥
समस्ताभ्यो दिग्भ्यो निजपदयुगीमेत्य भक्तिप्रणम्रै -
र्धरित्रीशैर्विद्वन्मुकुटमणिभि: पामरैश्चार्चिताङ्घ्रिम् ।
ज्वरापस्मृत्यर्श:क्षयमुखरुजाव्रातविध्वंसकार्चं
भजे मायादेवीप्रभववपुषं मूर्त्तिकारुण्यसिन्धुम् ॥११॥
अमेयां मायालीं दुरधिगमताभ्राजमानां नितान्तं
य आसीद्विस्तृण्वञ्जनमनसि तन्मारसञ्ज्ञासुरघ्नम् ।
कराम्भोजभ्राजन्नमदभयदब्रह्मविज्ञानमुद्रं
भजे मायादेवीप्रभववपुषं मूर्त्तिकारुण्यसिन्धुम् ॥१२॥
अनङ्गक्षोभाय प्रकृतिविकृतिव्रातलेशातिदूर -
स्वचेतोयोगीन्द्रैरनिशकलितस्वीयपादाम्बुजातम् ।
सरोभूभूशम्भुप्रमुखदिविषत्संस्तुतस्वोपदेशं
भजे मायादेवीप्रभववपुषं मूर्त्तिकारुण्यसिन्धुम् ॥१३॥
भवाम्भोधौ मग्नाञ्झटिति तत उद्धृत्य कारुण्यसिन्धु -
र्य आत्मानन्दाब्घौ श्रितजनततीर्मज्जयन् स्वोपदेशै: ।
स्पृहाशान्तिव्रातप्रमुखमददाच्छ्रान्तिजालप्रणाशं
भजे मायादेवीप्रभववपुषं मूर्त्तिकारुण्यसिन्धुम् ॥१४॥
भजत्पाषण्डादिप्रमुखनिखिलापत्तिहृत्त्वं यदीयं
सुरेशश्रीनारायणकवचतो विश्वकर्मा पुराह ।
नतैन:क्षान्त्यब्धिं यमभयहरं संयमश्राणकाङ्घ्रिं
भजे मायादेवीप्रभववपुषं मूर्त्तिकारुण्यसिन्धुम् ॥१५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP