संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीविद्यारण्याष्टकस्तोत्रम्

श्रीश्रृंगगिरिपीठाधीश्वरश्रीभारतीकृष्ण - श्रीविद्यारण्याष्टकस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भवभीतिविभेत्तारं भवभूतिप्रदकटाक्षलवलेशम् ॥
श्रीभारतिकृष्णगुरुं ( श्रीविद्यारण्यगुरुं ) भजे भजत्कल्पभूमिरुहम् ॥१॥
खरदीधितिनिभवसनं वरदानरतस्वकीयचित्ताब्जम् ॥
श्रीभारतिकृष्णगुरुं स्मरामि करनिर्जिताम्बुसंजातम् ॥२॥
करबदरिततर्कद्वयसांख्यद्वयजैमिनीयवेदान्तम् ॥
श्रीभारतिकृष्णगुरुं कलयाम्येणाङ्कशीतलस्वान्तम् ॥३॥
विजयपुरीवैभवदं प्रार्थितमाकृतसुवर्णघनवृष्ट्या ॥
श्रीभारतिकृष्णगुरुं कलयेsहं राजराजिकलिताङ्घ्रिम् ॥४॥
विनतातनुभववाहनवनितानुग्रहविशेषततिपात्रम् ॥
श्रीभारतिकृष्णगुरुं विनताघवज्रविनाशकं वन्दे ॥५॥
कृतकृतान्तादिभयं कृम्यादिनिखिलकृपासुधाब्धिहृदयम् ॥
श्रीभारतिकृष्णगुरुं कृत्स्नजगत्कृष्नताबुधं कलये ॥६॥
संयमिमणिगणनम्यं चेष्टितवाणीहृदङ्गमतिरम्यम् ॥
भारतिकृष्णं ( विद्यारण्यं ) सौम्यं वन्देsजस्रं वितीर्णनतकाम्यम् ॥७॥
पारदजनिमृतसिन्धो: सारदनिगमान्तवेद्यतत्त्वस्य ॥
श्रीभारतिकृष्णगुरो श्रीविद्यारण्यगुरो वरदायभधृत्कराम्बुजाताव ॥८॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP