संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीकाडलीक्षेत्रे श्रीशङ्करशारदास्तव:

श्रीकाडलीक्षेत्रे श्रीशङ्करशारदास्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


कृतप्रणम्रान्तकसाध्वसाभ्यां भवान्तकाभ्यां भजदिष्टदाभ्याम् ।
काषायशुक्लांशुकवेष्टिताभ्यां नमो नम: शङ्करशरदाभ्याम् ॥१॥
रम्याशयाभ्यां नतकाम्यदाभ्यां सिद्धयष्टकश्राणनपण्डिताभ्याम् ।
पीयूषपस्त्रीपुरुषार्चिताभ्याम नमो नम: शङ्करशारदाभ्याम् ॥२॥
नतप्रमोदप्रदसर्वदाभ्यां वार्भूकराभ्यां सुमभस्मधृद्भ्याम् ।
मरालवर्याय मरालगायै नमो नम: शङ्करशारदाभ्याम् ॥३॥
सुरेडिताभ्यां मुनिपूजिताभ्यां चन्द्रच्छविभ्यां करुणालयाभ्याम् ।
संसारपाथोनिधिपारदाभ्यां नमो नम: शङ्करशारदाभ्याम् ॥४॥
कलेण्मुखाभ्यां प्रणताघहाभ्यां नतेष्टदाभ्यां नतकष्टहृद्भ्याम् ।
मृगाङ्कधर्त्रे मृगलोचनायै नमो नम: शङ्करशारदाभ्याम् ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP