संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीसञ्ज्ञास्तुति:

श्रीसञ्ज्ञास्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


चरणविनमदामदक्षोणिजं संसृतेर्नाशिकां
भ्रमरभुगनीरधृत्कुन्तलां पद्मजित्पाणिकां,
विजयजलदतुल्यनैजाम्बरां नम्रसर्वेष्टदां
हृदयसलिलसम्भवे सन्दधे सञ्ज्ञिकां सन्ततम् ॥१॥
विविधविनतकाम्यवस्तुप्रदां देवनम्याङ्घ्रिकाम्
अतुलशुभदरम्यधीवृत्तिकां भानुकाम्याकृतिम् ।
प्रणतशमनमुख्यभीवारयार्द्रचित्ताञ्चितां
हृदयसलिलसम्भवे सन्दधे सञ्ज्ञिकां सन्ततम् ॥२॥
स्वरधिवसतिभामिनीपूजितां मौनिभि: संस्तुतां
कनकनिभतनुच्छविखचित [ भव्य ] भूषाञ्चिताम् ।
अमितभवपयोनिधे: पारदां वायुभुग्वेणिकां
हृदयसलिलसम्भवे सन्दधे सञ्ज्ञिकां सन्ततम् ॥३॥
विनतसकलपापपूगच्छिदं वैनतेयार्चितां
कनकधरणिधारिजिष्णुस्तनीं - भीतिहृन्मुद्रिकाम् ।
कणभुगहिपमुख्यशास्त्रप्रदामेणजिल्लोचनां
हृदयसलिलसम्भवे सन्दधे सञ्ज्ञिकां सन्ततम् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP