संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीस्थिरवासरे श्रीसत्यनारायणस्तुति:

श्रीस्थिरवासरे श्रीसत्यनारायणस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


श्रीहेरम्बाधित्तजातार्च्यपादं कारुण्याम्भोराशिवेलास्वचित्तम् ।
शास्त्रव्रातस्पर्शकस्वाङ्घ्रिचिन्तॅं विष्णुं वन्दे सत्यनारायणाख्यम् ॥१॥
भोगिव्रातोत्तंसभोगस्वतल्पं विश्वद्रव्याकारधृत्प्राणकान्तम् ।
अभ्राशेषाहङ्कृतिध्नाङ्गकान्तिं विष्णुं वन्दे सत्यनारायणाख्यम् ॥२॥
नम्रानन्दम्भोधिराकाशशाङ्कं श्यालं स्वीयश्वालधृत्स्वीयमौले: ।
नाभ्युत्थाम्भोरुड्जनु: सीधुवक्त्रॅं विष्णुं वन्दे सत्यनारायणाख्यम् ॥३॥
देवश्रेष्ठव्रातसम्पूजिताङ्घ्रिं फालाक्षाजाद्यर्च्यपादारविन्दम् ।
लाकिन्यादिस्त्रीमणित्रातगीतॅं विष्णुं वन्दे सत्यनारायणाख्यम् ॥४॥
बिम्बन्यक्कृत्स्वीयदिव्याधरोष्ठं लावण्याब्धिस्वीयकान्तान्तरङ्गम् ।
एका [ णा ] ङ्काग्रेजन्महृत्पद्मभानु विष्णुं वन्दे सत्यनारायणाख्यम् ॥५॥
नित्यॅं लोकव्रातमाङ्गल्यहेतु भक्ताल्याशापूगसत्पूरकार्चंम् ।
सिन्धूद्धूताश्लेषणानन्दिताङ्गं विष्णुं वन्दे सत्यनारायणाख्यम् ॥६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP