श्रीदिनपस्तव:
स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.
दिनपं हिरण्यपरिहासिरुचितनु [ रुचिं रुचितनु ] तनूरहादिकम् ।
आश्रितदिविजभूमिरुहं भवभीतिञ्जकनमस्कृतं भजे ॥१॥
दिनपं शरद्धनतुषारतुहिनकिरणाभवाससम् ।
नम्रवरततिदानरतं कमलप्रमोदकरपाणिमाश्रये ॥२॥
दिनपं जगत्त्रयनिवासिजननिकरनम्यपादुकम् ।
स्पष्टनतततिकाम्यचयं करुणादिरम्यहृदयाम्बुजं भजे ॥३॥
दिनपं सहोद्भवरमेशशतमखमुखामरव्रजम् ।
भक्तनिकरकृतन्तमुखाखिलसाध्वसापहकृपाम्बुधिं श्रये ॥४॥
दिनपं कनत्कनकमुख्यविनतसकलेष्टदायिनम् ।
स्वर्गनिवसतिकृल्ललनामुनिसङ्घगीतचरणाम्बुजं भजे ॥५॥
दिनपं जगन्निकरपोषिनिजकरमनूरुसारथिम् ।
ऐहिकमुखसमस्तशुभपदमाश्रये भवपयोधिपारदम् ॥६॥
दिनपं नमस्करणमुख्यसुलभकृतितुष्टचेतसम् ।
नौमि हृदि विनतातनुजध्वजरूपिणं विनतपापकृन्तनम् ॥७॥
दिनपं मृगाङ्कधरणीसुतसुरगुरुसुहृत्स्वमानसम् ।
गौतममुखनयव्रजदं विनतेष्टदाभयदपाणिमाश्रये ॥८॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP