English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 279

Puran Kavya Stotra Sudha - Page 279

Puran Kavya Stotra Sudha - Page 279


२६६
पुराणकाव्यस्तोत्रसुधा ।
त्वमक्षयः सगिरिवना वसुन्धरा नभः ससोमार्कमदिवाखिलम् ॥
महोदघेजंठरगतश्च वाडवो भवान्विभुः पिबति पयांसि पावक ||६४॥
हुताशनस्त्वमिति सदाभिपूज्यसे महाऋतौ नियमपरैर्महर्षिभिः ॥
अभिष्टुतः पिबसि च सोममध्वरे वषट्कृतान्यपि च हवींषि भूतये ॥६५॥
त्वं विप्रैः सततमिहेज्यसे फलार्थं वेदाङ्गेष्वथ सकलेषु गोयसे त्वम् ॥
त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा वेदाङ्गान्यधिगमयन्ति सर्वकाले ॥६६॥
त्वं ब्रह्मा यजनपरस्तथैव विष्णुर्भूतेश: सुरपतिरर्यमा जलेशः ॥
सूर्येन्द्र सकलसुरासुराश्च हव्यैः सन्तोष्याभिमतफलान्यथाप्नुवन्ति ॥६७||
अचिभिः परममहोपघातदुष्टं संस्पृष्टं तव शुचि जायते समस्तम् ॥
स्नानानां परममतीव भस्मना सत्सन्ध्यायां मुनिभिरतीव सेव्यसे तत् ||
तत्कृत्वा त्रिदिवमवाप्नुवन्ति लोकाः सद्भक्त्या सुखनियता: समूहगीतम् ||
प्रसीद वह्न शुचिनामधेय प्रसीद वाय्वे विमलादिदीप्ते ॥
प्रसीद मे पावक वैद्युताभ प्रसीद हव्याशन पाहि मां त्वम् ॥७०॥
यत्ते वह्न शिवं रूपं ये च ते सप्त हेतयः ||
तेः पाहि नः स्तुतो देव पिता पुत्रमिवात्मजम् ॥७१॥
८९. कल्किस्तोत्रम्
( कल्किपुराणम् )
सुशान्तोवाच-
जय हरेऽमराधीशसेवितं तव पदाम्बुजं भूरिभूषणम् ॥
कुरु ममाग्रतः साधुसत्कृतं त्यज महामते मोहमात्मनः ॥ १॥
तब वपुर्जगद्रूपसंपदा विरचितं सतां मानसे स्थितम् ॥
रतिपतेमंनोमोहदायकं कुरु विचेष्टितं कामलम्पटम् ॥ २॥
तव यशो जगच्छोकनाशनं मृदुकथामृतं प्रीतिदायकम् ॥
स्मितसुघोक्षितं चन्द्रवन्मुखं तव करोत्यलं लोकमङ्गलम् ॥ ३॥
मम पतिस्त्वयं सर्वदुर्जयो यदि तवाप्रियं कर्मणाऽऽचरेत् ॥
जहि तदात्मनः शत्रुमुखतं कुरु कृपां न चेदोद्गोश्वरः ॥ ४॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP