English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 289

Puran Kavya Stotra Sudha - Page 289

Puran Kavya Stotra Sudha - Page 289


२७६
पुराणकाव्यस्तोत्रसुधा |
५. मदालसासन्देशः - अलर्क प्रति
( मार्कण्डेय, अ. ३३-३४ )
मदालसोवाच –
यदा दुःखमसह्यं ते प्रियबन्धुवियोगजम् ॥
शत्रूबाघोद्भवं वापि वित्तनाशात्मसंभवम् ॥६॥
भवेत्तत्कुर्वतो राज्यं गृहधर्मावलम्बिनः ||
दुःखायतनभूतो हि ममत्वालम्बनो गृही ॥७॥
तदास्मात्पुत्र निष्कृष्य मद्दत्ताङ्गुलीयकात् ||
वाच्यं ते शासनं पट्टे सूक्ष्माक्षरनिवेशितम् ॥३३. ८॥
आति स परमां प्राप्य तत्सस्माराङ्गुलीयकम् ॥
यदुद्दिश्य पुरा प्राह माता तस्य मदालसा ॥२०॥
ततः स्नातः शुचिर्भूत्वा वाचयित्वा द्विजोत्तमान ॥
निष्कृष्य शासनं तस्माद्ददृशे प्रस्फुटाक्षरम् ॥२१॥
तत्रैव लिखितं मात्रा वाचयामास पार्थिवः ॥
प्रकाशपुलकाङ्गोऽसौ प्रहर्षोत्फुल्ललोचनः ॥२२॥
सङ्गः सर्वात्मना त्याज्य: स चेत्त्यक्तुं न शक्यते ॥
स सद्भिः सह कर्त्तव्यः सतां सगो हि भेषजम ॥२२॥
काम: सर्वात्मना हेयो हातुं चेच्छक्यते न सः ||
मुमुक्षां प्रति तत्का
तस्यापि भेषजम् ||३४.२३॥
६. मदालसासन्देशः पुत्रान्प्रति
( मार्कण्डेय, अ. २३ )
सा वै मदालसा पुत्रं बालमुत्तानशायिनम् ॥१०॥
उल्लापनच्छलेनाह रुदमानमविस्वरम् ॥ ११॥
शुद्धोऽसि रे तात न तेऽस्ति नाम कृतं च ते कल्पनयाधुनैव ॥
पञ्चात्मकं बेहमिदं न तेऽस्ति नैवास्य त्वं रोदिषि कस्य हेतोः ॥ १२॥
न वा भवान् रोदिति वै स्वजन्मा शुद्धोऽयमासाद्य महीसमूहम् ॥
विकल्पमानो विविधैर्गुणार्थर्गुणाश्च भौताः सकलेन्द्रियेषु ॥ १३॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP