English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 47

Puran Kavya Stotra Sudha - Page 47

Puran Kavya Stotra Sudha - Page 47


३२
पुराणकाव्यस्तोत्रसुधा ।
सद्यः पक्वघृतं द्राक्षा बाला स्त्री क्षीरभोजनम् ॥
उष्णोदकं तरुच्छाया सद्यः प्राणहराणि षट् ॥ ३१ ॥
कूपोदकं वटच्छाया नारीणाञ्च पयोधरः ॥
शोतकाले भवेदुष्णमुष्णकाले च शीतलम् ॥ ३२ ॥
त्रयो बलकराः सद्यो बालाभ्यगसुभोजनम् ||
त्रयो बलहरा सद्यो ह्यध्वा वै मैथुनं ज्वरः ॥ ३३ ॥
शुष्कं मांसं पयो नित्यं भार्यामित्रैः सहैव तु ||
न भोक्तव्यं नृपैः सार्द्धं वियोगं कुरुते क्षणात् ॥ ३४ ॥
कुचेलिनं दन्तमलोपधारिणं
बहाशिनं निष्ठुरवाक्यभाषिणम् ॥
सूर्योदये ह्यस्तमयेऽपि शायिनं
विमुञ्चति श्रोरपि चक्रपाणिनम् ॥ ३५ ॥
नित्यं छेवस्तृणानां धरणिविलिखनं पादयोश्चापमाष्टि:
दन्तानामप्यशौचं मलिनवसनता रूक्षता मूर्द्धजानाम् ॥
द्वे सन्ध्ये चापि निद्रा विवसनशयन ग्रासंहासातिरेकः
स्वाङगे पीठे च वाद्यं निधनमुपनयेत्केशवस्यापि लक्ष्मीम् ॥३६॥
शिरः सुधौतं चरणौ सुमाजितौ
वराङ्गनासेवनमल्पभोजनम् ॥
अनग्नशायित्वमपर्वमैथुनं
चिरप्रनष्टां श्रियमानयन्ति षट् ॥ ३७ ॥
यस्य कस्य तु पुष्पस्य पाण्डरस्य विशेषतः ||
शिरसा धार्यमाणस्य ह्यलक्ष्मीः प्रतिहन्यते ॥ ३८ ॥
दोपस्य पश्चिमा छाया छाया शय्यासनस्य च ॥
रजकस्य तु यत्तोर्थमलक्ष्मीस्तत्र तिष्ठति ॥ ३९ ॥
बालातपः प्रेतधूमः स्त्री वृद्धा तरुणं दधि ||
आयुष्कामो न सेवेत तथा सम्मार्जनीरजः ॥ ४० ॥
गजाश्वरथघान्यानां गवां चैव रजः शुभम् ॥
अशुभं च विजानीयात्खरोष्ट्राजाविकेषु च ॥ ४१ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP