English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 146

Puran Kavya Stotra Sudha - Page 146

Puran Kavya Stotra Sudha - Page 146


काव्य योगः-
- पुष्कर वर्णणम्
अतिक्रम्य द्रुमाग्राणि भासन्ते यूथिकालताः ॥
पुष्पिताः पुष्पनिकरैर्वीजयन्त्य इवोत्थिताः ॥ ३५ ॥
सर्जार्जुनाः क्वचिद्भान्ति वनोद्देशेषु पुष्पिताः ||
धौतकौशेयवासोभिः प्रावृताः पुरुषा इव ॥ ३६॥
अतिमुक्तकवल्लीभिः पुष्पिताभिस्तथा द्रुमाः ||
उपगूढा विराजन्ते नारीभिरिव सुप्रियाः || ३७ ॥
चूताश्वतिलकाश्चैव मञ्जरीभिः करैरिव ||
वायुघातादि चान्योन्यं ढौकन्तीवाथ सज्जनाः ॥ ३८ ॥
अपरस्परसंसक्तै: शालाशोकाइच पल्लवैः ॥
हस्तैर्हस्तान्स्पृशन्तीव सुहृदश्चिरसङगताः ॥ ३९ ॥
फलपुष्पभरा नत्राः पनसाः सरलार्जुनाः ||
अन्योन्यमर्चयन्तीव पुष्पैश्चेव फलैस्तथा ॥ ४० ॥
वायुना वेगसंश्लिष्ट: पादपाः शालबाहुभिः ॥
अभ्याशमागते लोके प्रीतिभावरिवोत्थिताः ॥ ४१ ॥
पुष्पाणामवरोधेन स्वशोभार्थं व्रजन्ति वै ॥
वसन्तमहमासाद्य पुरुषाः स्पर्धयेव हि ॥ ॥ ४२ ॥
पुष्पशोभाभरनतैः शिखरैर्वायुकम्पितैः ॥
नृत्यन्तीव नराः प्रीताः स्रगलंकृतशेखराः ॥ ४३ ॥
भृङगा: पर्यन्त विक्षिप्ताः पुष्पावलिलताघृताः ॥
सवल्लीका: प्रनृत्यन्ति मानवा इव संगताः ॥ ४४ ॥
स्वपुष्पोन्नतवल्लीभिः पादपाः क्वचिदावृताः ॥
भान्ति तारागणैश्चित्रं शरदीव नभस्तलम् ॥ ४५ ॥
द्रुमाणामथवाऽग्रेषु पुष्पिता मालतीलताः ||
शेखरा इव शोभन्ते रचिता बुद्धिपूर्वकम् ॥ ४६॥
हरिताः काञ्चनच्छायाः फलिताः पुष्पिता द्रुमाः ॥
सौहृदं दर्शयन्तीव नराः साधुसमागमे ॥ ४७ ॥
पुष्पकिञ्जल्ककपिला गताः सर्वलतासु च ॥
कदम्ब पुष्पसंकाशा घोषयन्तीव षट्पदाः ॥ ४८ ॥
क्वचित्पुष्पासवक्षीबाः सम्पतन्ति यतस्ततः ॥
पुंस्कोकिलगणा वृक्षगहनेष्विव सुप्रियाः ॥ ४९ ॥
१३१

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP