English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 123

Puran Kavya Stotra Sudha - Page 123

Puran Kavya Stotra Sudha - Page 123


.१०८
श्रीभगवानुवाच-
पुराणकाव्यस्तोत्रसुधा ।
मिथो भजन्ति ये सख्यः स्वाथकान्तोद्यमा हि ते ॥
न तत्र सौहृदं धर्मः स्वार्थार्थं तद्धि नान्यथा ॥ १७ ॥
भजन्त्यभजतो थे वै करुणाः पितरो यथा ॥
धर्मो निरपवादोऽत्र सौहृदं च सुमध्यमाः ॥ १८ ॥
भजतोऽपि न वै केचिद भजन्त्यभजतः कुतः ॥
आत्मारामा ह्याप्तकामा अकृतज्ञा गुरुद्रहाः ॥ १९ ॥
नाहं तु सख्यो भजतोऽपि जन्तून् भजाम्यमोवामनुवृत्तिवृत्तये ॥
यथाधनो लब्धघने विनष्टे तच्चिन्तयान्यन्निभृतो न वेद ॥ २० ॥
एवं मदर्थोज्झितलोकवेदस्वानां हि वो मय्यनुवृत्तयेऽबलाः ॥
मया परोक्षं भजता तिरोहितं मासूयित मार्हथ तत्प्रियं प्रियाः ॥ २१ ॥
न पारयेऽहं निरवद्यसयुजां स्वसाधुकृत्यं बिबुघायुवापि वः ॥
या माभजन दुर्जरगेहशृङखलाः संवृश्च्य तद्वः प्रतियातु साधुना |॥ २२ ॥
महारासवर्णनम्
( अ. ३३ )
इत्थं भगवतो गोप्यः श्रुत्वा वाचः सुपेशलाः ॥
जह्रुविरहजं तापं तदङगोपचिताशिषः ॥ १ ॥
तत्रारभत गोविन्दो रासक्रीडामनुव्रतैः ॥
स्त्रीरत्नैरन्वितः प्रीतैरन्योन्याबद्धबाहुभिः ॥ २॥
रासोत्सवः संप्रवृत्तो गोपीमण्डलमंडितः ॥
योगेश्वरेण कृष्णेन तासां मध्ये द्वयोर्द्वयोः ॥
प्रविष्टेन गृहोतानां कण्ठे स्वनिकटं स्त्रियः ॥ ३ ॥
यं मन्येरन् नभस्तावद् विमानशतसङ्कुलम् ॥
दिवौकसां सदाराणामौत्सुक्यापहृतात्मनाम् ॥ ४॥
ततो दुन्दुभयो नेदुनिपेतुः पुष्पवृष्टयः ॥
जगुर्गन्धर्वपतयः सस्त्रीकास्तद्यशोऽमलम् ॥ ५ ॥
वलयानां नूपुराणां किंकिणीनां च योषिताम् ॥
सप्रियाणामभूच्छम्दस्तुमुलो रासमण्डले ॥ ६ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP