पुराणकाव्यस्तोत्रसुधा ।
तत्सौहृदं यत्क्रियते परोक्षे
दम्भवना यः क्रियते स धर्मः ॥५१॥
न सा सभा यत्र न सन्ति वृद्धा:
वृद्धा न ते येन वदन्ति धर्मम् ॥
धर्मः स नो यत्र न सत्यमस्ति
नैतत्सत्यं यच्छलेनानुविद्धम् ॥५२॥
ब्राह्मणोऽपि मनुष्याणामादित्यश्चैव तेजसाम् ॥
शिरोऽपि सर्वगात्राणां व्रतानां सत्यमुत्तमम् ॥५३॥
तन्मङ्गलं यत्र मनः सन्नं
तज्जीवनं यन्त्र परस्य सेवा ॥
तदार्जितं यत्स्वजनेन भुक्तं
तद्गजितं यत्समरे रिपूणाम् ॥ ५४॥
सा स्त्री या न मदं कुर्यात्स सुखी तृष्णयोज्झितः ॥
तन्मित्रं यत्र विश्वासः पुरुषः स जितेन्द्रियः ॥५५॥
तत्र मुक्तादरस्नेहो विलुप्तं पत्र सौहृदम् ॥
तदेव केवलं श्लाघ्यं यस्यात्मा क्रियते स्तुतौ ॥५६॥
नदीनामग्निहोत्राणां भारतस्य कुलस्य च ॥
मूलान्वेषो न कर्तव्यो मूलाद्दोषो न हीयते ॥५७॥
लवणजलान्ता नद्यः स्त्रीभेदान्तं च मैथुनम् ॥
पैशुन्यं जनवार्त्तान्तं वित्तं दुःखत्रयान्तकम् ॥ ५८॥
राज्यश्रीब्रह्मशापान्ता पापान्त ब्रह्मवर्चसम् ॥
आचारं घोषवासान्तं कुलस्यान्तं स्त्रियः प्रभो ? ॥ ५९॥
सर्वे क्षयान्ता निलया: पतनान्ताः समुच्छ्रपाः ॥
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥६०॥
यदीच्छेत्पुनरागन्तुं नातिदूरमनुव्रजेत् ॥
उदकान्तान्निवर्तेत स्निग्धवर्णाच्च पादपात् ॥६१॥
अनायके न वस्तव्यं न चैव बहुनायके ॥
स्त्रीनायके न वस्तव्यं न तथा २ बालनायके || ६२||
१. 'भुः' इ.अ.पा. २. "वस्तव्यं " इ. पा.