English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 78

Puran Kavya Stotra Sudha - Page 78

Puran Kavya Stotra Sudha - Page 78


व्यवहारचातुर्ययोगः— मोहः
३१८ दुविनीतः श्रियं प्राप्य विद्यामैश्वर्यमेव च ॥
न तिष्ठति चिरं कालं यथाहं मदर्गावतः ॥ १८ ॥ Tbid, २४९.
आत्मदोष (७) - मोह :
३१९ मोहः सदाऽविवेकश्च वर्जनीयः प्रयत्नतः ॥
तेन त्यक्तो नरो ज्ञानी न ज्ञानी मोहसंश्रयात् ॥ २५ ॥
स्कांद, नागरखं., २३८.
३२० अर्थसंपद्विमोहाय बहुशोकाय चैव हि ||
तस्मादर्थमनर्थक्यं श्रेयोऽर्थी दूरतस्त्यजेत् ॥ २६ ॥
३२१ यस्य धर्मार्थमप्यर्थास्तस्यापि न हि दृश्यते ॥
प्रक्षालनाद्धि पत्रकस्य दूरादस्पर्शनं वरम् ॥ २७ ॥
Ibid, प्रभासक्षे. मा., २५९.
आत्मदोष (८) - मत्सर :
३२२ ते तु मात्सर्यदोषेण नष्टाचाराः पतन्त्यधः ॥
मात्सर्यं सर्वनाशाय मात्सर्यं सर्वनाशकम् ॥ ३५ ॥
आत्मदोष (९) - लोभ - आशा
३२३ प्रमादात्सर्वभूतानि विनश्यन्ति न संशयः ॥
न च लोभेन चर्तव्यं विषमस्थं तृणं क्वचित् ॥ ३६१ ॥
३२४ लोभाद्विनाशः सर्वेषामिह लोके परत्र च ॥
समुद्रमटवीं पुत्र विशन्ति लोभमोहिताः || ३६२ ॥
३२५ लोभादकार्यमत्युग्रं विद्वानपि समाचरेत् ||
वराह, १४८.
लोभात्प्रमादाद्विभात्त्रिभिर्नाशो भवेन्नृणाम् ॥ ३६३ ॥
३२६ तस्माल्लोभं न कुर्वीत न प्रमादं न विश्वसेत् ||
आत्मा हि सततं पुत्र रक्षितव्यः प्रयत्नतः || ३६४ ||
पद्म, सृ. खं., १८.
३२७ लोभात्प्रवर्तते कामः कामात्पापं प्रवर्तते ॥
पापान्मृत्युमृतेऽपि स्याद् दुस्तरे नरके स्थितिः ॥ ४६॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP