English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 288

Puran Kavya Stotra Sudha - Page 288

Puran Kavya Stotra Sudha - Page 288


परमार्थ योगः-
- स्वर्गद्वाराणि
रेफाग्रं लम्बकाग्रं करतलघटनं शुभ्रपद्मस्य बिन्दो-
स्तेनाकृष्टा सुधेयं पतति परपदे देवतानन्दकारी ॥
सारं संसारतारं कृतकलुषतरं कालतारं सतारं
येनेदं प्लाविताङ्गं स भवति न मृतः क्षुत्पिपासाविहीनः ||३७||
येभिर्युक्ता चतुर्भिः क्षितिघरतनये योगिभिर्वै घरबा
धैर्य्यान्नित्यं कुतोऽन्तः सकलमपि जगद्यत्सुखप्रावणाय ॥
स्वप्ने देही विधत्ते सकलमपि सदा मानयन्यच्च दुःखं
स्वर्गे ह्येवं धरित्र्याः प्रभवति च ततो वा स किञ्चिच्चतुर्णाम् ||३८||
तस्मान्मन्त्रैस्तपोभिव्रतनियमय तैरौषधैर्योगयुक्ता
धात्री रक्ता मनुष्यैर्नयविनययुतैर्धर्मविद्भिः क्रमेण ॥
भूतानामादिदेवो न हि भवति चल: संयुतो वै चतुर्णां
तस्मादेवं प्रवक्ष्ये विधिमनुगदिनं छायिकं यच्छिवास्यम् ॥३९॥
४. स्वर्गद्वाराणि
( मत्स्य, ३९ )
२७५
ययातिरुवाच -
तपश्च दानं च शमो दमश्च होराजवं सर्वभूतानुकम्पा ॥
स्वर्गस्य लोकस्य वदन्ति सन्तो द्वाराणि सप्तैव महान्ति पुंसाम् ॥
सर्वाणि चैतानि यथोदितानि तपः प्रधानान्यभिमर्षकेण ||
नश्यन्ति मानेन तमोऽभिभूताः पुंसः सदैवेति वदन्ति सन्तः ॥ २३॥
अधीयान: पण्डितंमन्यमानो यो विद्यया हन्ति यशः परस्य ॥
तस्यान्तवन्तः पुरुषस्य लोका न चास्य तद्ब्रह्मफलं ददाति ||२४||
चत्वारि कर्माणि भयंकराणि भयं प्रयच्छन्त्ययथाकृतानि ॥.
मानाग्निहोत्रमुत मानमौनं मानेनाघीतमुत मानयज्ञः ॥२५॥
न मान्यमानो मुदमाददीत न संतापं प्राप्नुयाच्चावमानात् ॥
सन्तः सतः पूजयन्तीह लोके नासाघवः साधुबुद्धि लभन्ते ॥२६॥
इति दद्याविति यजेदित्यवीयीत मे श्रुतम् ॥
इत्येतान्यभयान्याहस्तान्यवर्ज्यानि नित्यशः ॥२७॥
येनाऽऽश्रयं वेदयन्ते पुराणं मनीषिणो मानसे मानयुक्तम् ॥
तन्निःश्रेयस्तेन संयोगमेत्य परां शान्ति प्राप्नुयुः प्रेत्य चेह ॥२८॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP