English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 85

Puran Kavya Stotra Sudha - Page 85

Puran Kavya Stotra Sudha - Page 85


90
३९६
पुराणकाव्यस्तोत्रसुधा ।
नूनं विचित्रो भुवि भूतवर्गः
सम्भूतभावो बहुधा विचित्रः ॥
तथा विचित्रोऽखिलकर्मयोग-
स्तत्कर्मशक्तिप्रचयो विचित्रः ॥ ३१ ॥ पद्म, पा. खं., १०२.
३९७ यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति ॥
तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥ ४२ ॥
३९८ यथा कृतं तथा भुङ्क्ते नित्यं विहितमात्मना ॥
आ मना विहितं दुःखमात्मना विहितं सुखम् ॥ ४४ ॥
३९९ वित्तेन प्रज्ञया वाऽपि समर्थाः कर्तुमन्यथा ||
स्वकृतान्युपभुञ्जन्ति दुःखानि च सुखानि च ||
हेतुं प्राप्य नरो नित्यं कर्मपाशंश्च बध्यते ॥ ४६॥
४०० यथा घेनुसहस्रेषु वत्सो विन्दति मातरम् ॥
तथा शुभाशुभं कर्म कर्तारमनुगच्छति ॥ ४७ ॥
४०१ उपभोगादृते तस्य नाश एव न विद्यते ||
प्राक्तनं बन्धनं कर्म कोऽन्यथा कर्तुमर्हति ॥ ४८ ॥
४०२ सुशीघ्रमपि धावन्तं विधानमनुधावति ||
शेते सह शयानेन पुराकर्म यथाकृतम् ॥ ४९ ॥
४०३ उपतिष्ठति तिष्ठन्तं गच्छन्तमनुगच्छति ॥
करोति कुर्वतः कर्म छायेवानृविधीयते ॥ ५० ॥
४०४ यथा छायातपौ नित्यं संबद्धौ च परस्परम् ॥
तद्वत्कर्म च कर्ता च सुसम्बद्धौ परस्परम् ॥ ५१ ॥
४०५ येन यत्रोपभोक्तव्यं सुखं वा दुःखमेव वा ॥
स तत्र बद्ध वा बन्धेन बलावेन नीयते ॥ ५३ ॥
४०६ अरक्षितं भवेत्सत्यं दैवं तमेव रक्षति ॥
दवेन नाशितं यत्तु तस्य रक्षा न दृश्यते ॥ ५६ ॥
Ibid, भू. खं., ८१.
भागवत, ३, ३.
४०७ देव हि दुरतिक्रमम् ॥ ७ ॥ Ibid, स्व. खं., २२.
दैवाघीनेषु कामेषु देवाधीनः स्वयं पुमान् ॥ २३ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP