१३०
पुराणकाव्यस्तोत्रसुधा
९. पुष्करवर्णनम्
(पद्म, सृष्टिखण्ड, १५.)
नानाद्रुमलताकीर्णं नानापुष्पोपशोभितं ||
नानापक्षिरवाकीर्ण नानामृगगणाकुलम् ॥ २२ ॥
द्रुमपुष्परसामोदर्वासितं यत्समन्ततः ॥
बुद्धिपूर्वमिव न्यस्तैः पुष्पैर्भूषितभूतलम् ॥ २३ ॥
नानागन्धरसँरन्यैः पक्वापक्वैः षडर्तुकैः ॥
फलैः सुवर्णपुष्पाढ्यै र्घाणदृष्टिमनोहरैः ॥ २४ ॥
जीर्णपत्रं तृणं यत्र शुष्क काष्ठफलानि च ॥
बहिः क्षिपति जातानि मारुतोऽनुग्रहादिव || २५ ।।
नानापुष्पसमूहानां गन्धमादाय मारुतः ॥
शीतलो वाति वं भूमि दिशो यत्राभिवासयन् ॥ २६ ॥
हरितस्निग्धनिश्छिद्रं रकोटवन कोटरैः ॥
वृक्षैरनेकसंज्ञैर्यद्भषितं शिखरान्वितैः ॥ २७ ॥
अरोगदर्शनीयैश्च सुवृत्तैः कैश्चिदुज्ज्वलैः ॥
कुटुम्बमिव विप्राणामृत्विजैर्भाति सर्वशः ॥ २८ ॥
शोभन्ते धातुसंकाशै रङकुरैः प्रसृता द्रुमाः ॥
कुलीनैरिव निश्छिद्रैः स्वगुणैः प्रसृता नराः ॥ २९ ॥
पवनाविद्धशिखरैः स्पृशन्तीव परस्परम् ॥
आजिघ्रन्तीव चान्योन्यं पुष्पशाखावतंसकाः ॥ ३० ॥
नागवृक्षाः क्वचित्पुष्पैर्दुभवानीरकेशरैः ।।
नयनैरिव शोभन्ते धवलैः कृष्णतारकैः ।। ३१ ।।
पुष्पसंपन्नशिखराः कर्णिकारद्रुमाः ववचित् ॥
युग्मयुग्मंद्विधा चेह शोभन्ते सावुदंपती ॥ ३२ ॥
सुपुष्पप्रभवाटोपैः सिन्धुवारद्रुपक्तयः ||
मूर्तिमत्य इवाऽऽभान्ति पूजिता वनदेवताः ॥ ३३ ॥
क्वचित्क्वचित्कुन्दलता: स्वपुष्पाभरणोज्ज्वलाः ॥
दिक्षु वृक्षेषु शोभन्ते बालचन्द्रा इवोदिताः ॥ ३५ ॥