English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 40

Puran Kavya Stotra Sudha - Page 40

Puran Kavya Stotra Sudha - Page 40


व्यवहारचातुर्ययोगः - बृहस्पतिनीतिसारः
वरं विन्ध्याटव्यां निवसनमभुक्तस्य मरणं
वरं सर्पाकीर्णे शयनमथ कूपे निपतनम् ॥
वरं भ्रान्तावर्ते सभयजलमध्ये प्रविशनं १
२५
न तु स्वीये पक्षे हि धनमणु देहीति कथनम् ॥ ११ ॥
भाग्यक्षयेषु क्षीयन्ते नोपभोगेन सम्पदः ||
पूर्वाजते हि सुकृते न नश्यन्ति कदाचन ॥ १२ ॥
विप्राणां भूषणं विद्या पृथिव्या भूषणं नृपः ||
नभसो भूषणं चन्द्रः शीलं सर्वस्य भूषणम् ॥ १३ ॥
एते ते चन्द्रतुल्याः क्षितिपतितनया भीमसेनार्जुनाद्याः
शूराः सत्यप्रतिज्ञा दिनकरवपुषः केशवेनोपगूढाः ॥
ते वे दुष्टगृहस्थाः कृपणवशगता भैक्ष्यचर्या प्रयाताः
को वा कस्मिन्समर्थो भवति विधिवशाद्भ्रामयेत्कर्मरेखा ॥१४॥
ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे
विष्णुर्येन दशावतारगहने क्षिप्तो महासङकटे ॥
रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः
सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मिणे ॥ १५ ॥
दाता बलिर्याचकको मुरारि-
नं मही विप्रमुखस्य मध्ये ॥
दत्त्वा फलं बन्धनमेव लब्धं
नमोऽस्तु ते दैव यथेष्टकारिणे ॥ १६ ॥
माता यदि भवेल्लक्ष्मीः पिता साक्षाज्जनार्दनः ॥
कुबुद्धौ प्रतिपत्तिश्चेत्तस्मिन्दण्ड: पतेत्सदा ॥ १७ ॥
येन येन यथा यत्पुरा कर्म सुनिश्चितम् ||
तत्तदेवान्तरे भुङ्क्ते स्वयमा हितमात्मना ॥ १८ ॥
आत्मना विहितं दुःखमात्मना विहितं सुखम् ॥
गर्भशय्यामुपादाय भुक्ते वै पूर्वदेहिकम् ॥ १९ ॥
न चान्तरिक्षे न समुद्रमध्ये
न पर्वतानां विवरप्रवेशे ( प्रदेशे ? ) ॥
१. 'प्रपतनम्' इ. पा.

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP