English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 94

Puran Kavya Stotra Sudha - Page 94

Puran Kavya Stotra Sudha - Page 94


व्यवहारचातुर्ययोगः– मित्र-शत्रुः
१२. मित्र - शत्रुः
५०७ आक्रोशकसमो लोके सुहृदन्यो न विद्यते ||
यस्तु दुष्कृतमादाय सुकृतं स्वं प्रयच्छति ॥ ३४४ ॥
५०८ नैकत्र प्रियसंवासः सुहृदां चित्रकर्मणाम् ||
ओघेन व्यूह्यमानानां प्लवानां स्रोतसो यथा ॥ २५ ॥
५०९ कच्चित्पशव्यं निरुतं भूर्यम्बुतृणवीरुधम् ||
पद्म, सृ. स्वं.,
बृहद्वनं तदघुना यत्रास्से त्वं सुहृद्वृतः ॥ २६ ॥
५१० पुंसस्त्रिवर्गो विहितः सुहृदो ह्यनुभावितः ||
न तेषु क्लिश्यमानेषु त्रिवर्गोऽर्थाय कल्पते ॥ २८ ॥ भागवत, १०, ५.
५११ दातुः परीक्षा दुर्भिक्षे रणे शूरस्य जायते ॥
आपत्काले तु मित्रस्याशक्तौ स्त्रोणां कुलस्य हि ॥ १२ ॥
५१२ विनये सङकटे प्राप्तेऽवितथस्य परोक्षतः ॥
सुस्नेहस्य तथा तात नान्यथा सत्यमीरितम् ॥ १३ ॥
५१३ परेषामनपेक्ष्यैव कृतप्रतिकृतं हि यः ॥
प्रवर्तते हितायैव सुहृत्प्रोच्यते बुधैः ॥ २६ ॥
५१४ स्वार्थोद्युक्तघियो ये स्युरन्वर्थास्तेऽप्यसुंधराः ॥
मरणं प्रकृतिश्चैव जीवितं विकृतिर्यदा ॥ २७ ॥
५१५ प्राणिनां परमो लाभ: केवलं भाविसौहृदम् ॥
दरिद्रा रागिणोऽसत्यप्रतिज्ञाता गुरुद्रुहः ॥ २८ ॥
५१६ मित्रावसानिनः पापाः प्रायो नरकमण्डनाः ॥
परार्थनष्टास्तदमी पञ्च संप्रति साधवः ॥ २९ ॥
७९
शिव, रुद्रसं. खं. ३, १७.
१३. आत्मगुणा: (१) आत्मा
५१७ सर्वेषामपि भूतानां नृप स्वात्मैव वल्लभः ॥
इतरेऽपत्यवित्ताद्यास्तद्वल्लभतयैव हि ॥ ५० ॥
स्कान्द, मा. खं, कौ. खं., १०.

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP