४६
पुराणकाव्यस्तोत्रसुधा |
११७ महतामपि विप्राग्न्य दुनिवार्यो मनोभवः ॥
शरीरसहजो नूनमना दिर्वासनाक्रमः ॥ ३७॥
११८ केशकज्जलशालिन्यो दुःस्पर्शालोचनप्रियाः ॥
यस्मादग्निशिखा नार्यो दहन्ति तृणवन्नरः ॥ ३८ ॥
Ibid, पातालखं., १००.
११९ शास्त्रेषूक्तमसन्दिग्धं बहुवारं महाफलम् ||
दशपुत्रसमा कन्या यापि स्याच्छीलर्वाजिता ॥ १५६ ॥
१२० वाक्यमेतत्फल भ्रष्टं पुंसां ग्लानिकरं फलम् ॥
कन्या हि कृपणा शोच्या पितुर्दुःखविवधिनी ॥ १५७ ॥
Ibid, सृष्टिखं., ४५.
१२१ घृतकुम्भसमा नारी तप्ताङ्गारसमः पुमान् ॥
तस्माद् घृतं च र्वान्ह च नकस्थाने च धारयेत् ॥ २१ ॥
१२२ यथैव मत्तमातङ्गं सृणिमुद्गरयोगतः ॥
स्ववशां कुरुते यन्ता तथा स्त्रीणां प्ररक्षकः ॥ २२ ॥
१२३ पिता रक्षति कौमारे भर्ता रक्षति यौवने ॥
पुत्राश्च स्थविरे भावे न स्त्री स्वातन्त्र्यमर्हति ॥ २३ ॥
Ibid, सृ. खं., ५४.
१२४ [इह चैव स्त्रियो धन्याः शीलस्य परिरक्षणात् ॥
शोलभङगे च नारीणां यमलोकः सुदारुणः ||
शोलं रक्ष्यं सदा स्त्रीभिर्दुष्टसंगविवर्जनात् ॥ ९४ ॥
१२५ शोलेन हि परः स्वर्गः स्त्रीणां वैश्य न संशयः ॥
शूद्रस्य पाकयज्ञेन निषिद्धाम्बरणेन च ॥ ९५ ॥ ] Ibid, स्वर्गखं., ३१.
१२६ पञ्चाननस्य महिषों कथं प्राप्नोति जम्बुकः ॥
अन्धकारः कथं राजन्प्राप्नोति सवितुः प्रभाम् ॥ २६ ॥
Ibid, उत्तरखं.,
१२७ दुस्तरो मदनस्तस्मात्सर्वेषां प्राणिनामपि ॥
पुनारीरूपवत्कृत्वा मदनेनैव विश्वसृकु ॥ २५ ॥ ब्रह्माण्ड, उ. भा., 4,