व्यवहारचातुर्ययोगः– धन-दारिद्र्यम्
४५७ अर्थस्य साधने सिद्ध उत्कर्षे रक्षणेऽव्यये ॥
नाशोपभोग आयासस्त्रासश्चिन्ता भ्रमो नृणाम् ॥ १७ ॥
४५८ स्तेयं हिसाऽनृतं दम्भः कामः क्रोधः स्मयो मदः ॥
भेदो वैरमविश्वासः संस्पर्धा व्यसनानि च ।। १८ ।।
४५९ एते पञ्चदशानर्था ह्यर्थमूला मता नृणाम् ॥
तस्मादनर्थमर्याख्यं श्रेर्योऽर्थो दूरतस्त्यजेत ॥ १९ ॥
४६० भिद्यन्ते भ्रातरो दाराः पितरः सुहृदस्तथा ॥
एका: स्निग्धाः काकिणिता सद्यः सर्वेऽरयः कृताः ॥ २० ॥
४६१ अर्थेनाल्पीयसा होते संरब्धा दीप्तमन्यवः ॥
त्यजन्त्याशुस्मृधो घ्नन्ति सहसोऽत्सृज्य सौहृदम् ॥ २१ ॥
३६२ लब्धा जन्माऽमरप्रायं मानुष्यं तद् द्विजाग्यताम् ॥
तदनादृत्य ये स्वार्थं घ्नन्ति यान्त्यशुभां गतिम् ॥ २२ ॥
ये
४६३ स्वर्गापवर्गयोर्द्वारिं प्राप्य लोकमिमं पुमान् ॥
द्रविणे कोऽनुषज्जेत मर्त्योऽनर्थस्य घामनि ॥ २३ ॥
४६४ व्यर्थयायँहया वित्तं प्रमत्तस्य वयो बलम् ||
कुशला येन सिद्धयन्ति जरठः किं नु साधयेत् ॥ २५ ॥
४६५ कस्मात्संक्लिश्यते विद्वान्त्यर्थयार्थहयाऽसकृत् ॥
कस्य चिन्मायया नूनं लोकोऽयं सुविमोहितः ॥ २६ ॥ Ibid, ११, २३.
४६६ यतः सत्त्वं ततो लक्ष्मीः सत्त्वं
अनुसारि च ॥
निःश्रीकाणां कुतः सत्त्वं विना तेन गुणाः कुतः ॥ २९ ॥
४६७ बलशौर्याद्यभावश्च पुरुषाणां गुणविना ॥
लङघनीयः समस्तस्य बलशौर्यविवर्जितः ॥ ३० ॥
४६८ भवत्यपध्वस्तमतिर्लंधितः प्रथितः पुमान् ॥
एवमत्यन्तनिःश्रीके त्रैलोक्ये सत्त्वर्वाजते ॥ ३१ ॥
४६९ अर्थलाभेऽपि महति स्वाध्यायं न समुत्सृजेत् ॥
कुलान्यकुलतां यान्ति स्वाध्यायस्य विवर्जनात् ॥ ९० ॥
७५
विष्णु, १, ९.
विष्णुधर्मोत्तर, द्वि. सं., ८९.