English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 295

Puran Kavya Stotra Sudha - Page 295

Puran Kavya Stotra Sudha - Page 295


२८२
पुराणकाव्यस्तोत्रसुधा ।
पण्डिते वापि मूर्खो वा दरिद्रे वा श्रियान्विते ||
दुर्वृत्ते वा सुवृत्ते वा मृत्योः सर्वत्र तुल्यता ॥५९॥
एतच्छरीरं दुःखानां व्याघीनामयुतैर्वृतम् ॥
सुखाभासं बहुक्लेशं कर्मपाशेन यन्त्रितम् ॥६५॥
अन्यदुःखेन यो दुःखी योऽन्यहर्षेण हर्षितः ||
स एव जगतामीशो नररूपधरी हरिः ॥६९॥
यत्र सन्तः प्रवर्तन्ते तत्र दुःखं न बाधते ||
वर्तते यत्र मार्तण्डः कथं तत्र तमो भवेत् ॥७९॥
महापातकयुक्ता वा युक्ता वा चोपपातकैः ॥
परं पदं प्रयान्त्येव महद्भिवलोकिताः ॥७४॥
जडोऽपि याति पूज्यत्वं सत्सङ्गाज्जगतीतले ॥
कलामात्रोऽपि शीतांशुः शंभुना स्वीकृतो यथा ।। ८.६।।
चन्द्रहीना यथा रात्रि: पद्महीनं यथा सरः ॥
पतिहोना यथा नारी पितृहीनस्तथा शिशुः ॥ २१ ॥
सत्यहीनं यथा वाक्यं साधुहोना यथा सभा ॥
तपो यथा दयाहीनं तथा पित्रा विनार्भकः ॥ २३॥
वृक्षहीनं यथा|रण्यं जलहीना यथा नदी ॥
वेगहीनो यथा वाजी तथा पित्रा विनार्भकः ॥२४॥
उपेक्षेत समर्थ: सन्धर्मस्य परिपन्थिनः ॥
स एव सर्वनाशाय हेतुभूतो न संशयः ॥४२॥
बान्धवं प्रथमं मत्त्वा दुर्जनाः सकलं जगत् ॥
त एव बलहीनाइचेद्भजन्तेऽत्यन्तसाधुताम् ॥४३॥
दासभावं च शत्रूणां वारस्त्रीणां च सौहृदम् ॥
साधुभावं च सर्पाणां श्रेयस्कामो न विश्वसेत् ॥४५॥
प्रहासं कुर्वते नित्यं यान्दन्तान्दर्शयन्खलाः ||
तानेव दर्शयन्त्याशु स्वसामर्थ्य विपर्यये ॥४६॥
पिशुना जिह्वया पूर्व परुषं प्रवदन्ति च ॥
अतीव करुणं वाक्यं वदन्त्येव तथाबलाः ॥४७॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP