English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 67

Puran Kavya Stotra Sudha - Page 67

Puran Kavya Stotra Sudha - Page 67


५२
पुराणकाव्यस्तोत्र सुधा |
१९१ भवेत्कूलंकषा यद्वदल्पवर्षेण कन्नदी ||
खधरल्पवर्षेण तद्वत्स्यात्स्वकुलंकषा ॥ ६७ ॥
१९२ अविज्ञायान्यसामर्थ्य स्वसामर्थ्यं प्रदर्शयेत् ॥
उपहासमवाप्नोति तथैवायमिहाचलः (विध्य) ॥६८॥ स्कांद, काशीखं., ५.
१९३ विधिनापि कृता संध्या कालातीताफला भवेत् ॥
अयमेव हि दृष्टांतो वंध्यास्त्रीमैथुनं यथा ॥ ५७ ॥
१९४ जलौकयोपमीयंते प्रमदा मन्दबुद्धिभिः ॥
Ibid, ३५.
मृगीदृशां जलौकानां विचारान्महदन्तरम् ॥ ८५ ॥
१९५ जलौका केवलं रक्तमाददाना तपस्विनी ||
प्रमदा सर्वदा दत्ते चित्तं वित्तं बलं सुखम् ॥ ८६ ॥
१९६ [ दक्षा प्रजावती साध्वी प्रियवाक्यवशंवदा ॥
गुणैरमोभिः संयुक्ता सा श्रीः स्त्रीरूपधारिणी ॥ ]
१९७ त्रिशूलासिगदाशक्तिदुंदुभ्याकृतिरेखया ||
नितंबिनी कोतिमती त्यागेन पृथिवीतले ॥ ७९ ॥
१९८ [ स्त्रियः पवित्राः सततं नैता दुष्यन्ति केनचित् ॥
मासि मासि रजस्तासां दुष्कृतान्यपकर्षति ॥ ३७ ॥
१९९ पूर्व स्त्रियः सुरैर्भुक्ताः सोमगन्धर्ववन्हिभिः ||
भुञ्जते मानुषाः पञ्चानंता दुष्यन्त केनचित् ॥ ३८ ॥
२०० स्त्रीणां शौचं ददौ सोमः पावकः सर्वमेध्यताम् ॥
कल्याणवाण गंधर्वास्तेन मेध्याः सदा स्त्रियः ॥ ३९ ॥
२०१ कन्यां भुंक्ते रजःकालेऽग्निः शशी लोमदर्शने ॥
स्तनोद्भवेषु गंधर्वास्तत्प्रागेव प्रदीयते ॥ ४० ॥
२०२ शयनासनयानानि कुणपं स्त्रीमुखं कुशाः ॥
यज्ञपात्राणि सर्वाणि न दुष्यन्ति बुधाः क्वचित् ॥ ४४ ॥ ]
२०३ वत्सः प्रनवणे मेध्यः शकुनिः फलपातने ॥
नार्यो रतिप्रयोगेषु श्वामृगग्रहणे शुचिः ॥ ४५ ॥
२०४ अजाश्वयोर्मुखं मेष्यं गावो मेध्यास्तु पृष्ठतः ॥
Ibid, अ. ३६.
Ibid, ३७.
पादयोर्ब्राह्मणा मेध्याः स्त्रियो मेध्यास्तु सर्वतः ॥ ४६ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP