English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 68

Puran Kavya Stotra Sudha - Page 68

Puran Kavya Stotra Sudha - Page 68


व्यवहारचातुर्ययोगः– स्त्री
२०५ [ बलात्कारोपभुक्ता वा चौरहस्तगतापि वा ॥
न त्याज्या दयिता नारी नास्यास्त्यागो विधीयते ॥ ४७ ॥ ]
२०६ आम्लेन ताम्रशुद्धिः स्याच्छुध्दि: कांस्यस्य भस्मना ॥
संशुध्दी रजसां नार्यास्तटिन्या वेगतः शुचिः ॥ ४८ ॥
२०७ [ मनसापि हि या नेह चिन्तयेत्पुरुषान्तरम् ॥
सोमया सह सौख्यानि भुंक्ते चात्रापि कीर्तितम् ॥ ४९ ॥
२०८ तदभ्यर्च्याः सुवासिन्यो भूषणाच्छादनाशनैः ||
भूतिका मर्नरैनित्यं सत्कारेषूत्सवेषु च ॥ ५० ॥ ]
२०९ यत्र नार्यः प्रमुदिता भूषणाच्छादनाशनैः ॥
रमन्ते देवतास्तत्र स्युस्तत्र सफलाः क्रियाः || ५१ ॥ Ibid, ४०.
२१० अभोगिनौ मण्डलिनौ तत्क्षणान्मुक्तकञ्चुकौ ॥
वरमाशीविषौ स्पृष्टौ न तु पत्त्याः पयोधरौ ॥ १४४ ॥
५३
Ibid, नागरखं., १४४.
२११ निर्दयत्वं तथा द्रोहं कुटिलत्वं विशेषतः ||
अशौचं निर्घृणत्वं च स्त्रीणां दोषाः स्वभावजाः ॥ ६० ॥
२१२ अन्तविषमया होता बहिर्भागे मनोरमाः ॥
गुञ्जाफलसमाकारा योषितः सर्वदैव हि ॥ ६१ ॥
२१३ उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः ॥
मन्वादयस्तथान्येऽपि स्त्रीबुद्धेस्तत्र किचन ॥ ६२ ॥
२१४ पीयूषमधरे वासं हृदि हालाहलं विषम् ||
आस्वाद्यतेऽघरस्तेन हृदयं च प्रपोडयते ॥ ६३ ॥
२१५ अलक्तको यथा रक्तो नरः कामो तथैव च ॥
हृतसारस्तथा सोऽपि पादमूले निपात्यते || ६४ ||
२१६ संसारभ्रमणं नारी प्रथमेऽपि समागमे ||
वन्हिप्रदक्षिणन्यायव्याजेनैव प्रदर्शयेत् ॥ ६७ ॥
२१७ एतास्तु निर्घृणत्वेन निर्दयत्वेन नित्यशः ॥
विशेषाज्जाड्यकृत्येन दूषयन्ति कुलत्रयम् ॥ ६८ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP