English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 159

Puran Kavya Stotra Sudha - Page 159

Puran Kavya Stotra Sudha - Page 159


१४४
पुराणकाव्यस्तोत्रसुधा ।
१८. वेणुगीतम्
( भागवत, १०, २१ )
[ Krisna, while grazing the cows in the forest, used to
play on flute. The whole world felt amused with its tunes.
The Gopis are giving a graphic description of the same. ]
गोप्य ऊचु:-
इत्थं शरत्स्वच्छजलं पद्माकरसुगन्धिना ||
न्यविशद्वायुना वातं सगोगोपालकोऽच्युतः ॥ १ ॥
कुसुमितनवराजिशुष्मिभृङ्ग द्विजकुलघुष्टसरः सरिन्महीघ्रम् ॥
मधुपतिरवगाह्य चारयन् गा: सहपशुपालबलश्चुकूज वेणुम् ॥ २ ॥
तद् व्रजस्त्रिय आश्रुत्य वेणुगीतं स्मरोदयम् ।।.
काश्चित्परोक्षं कृष्णस्य स्वसखोभ्योऽन्ववर्णयन् ॥ ३ ॥
तद्वर्णयितुमारब्धाः स्मरन्त्यः कृष्णचेष्टितम् ||
नाशकन्स्मरवेगेन विक्षिप्तमनसो नृप ॥ ४ ॥
बर्हापीडं नटवरवपुः कर्णयोः कणिकारं
बिभ्रद्वासः कनककपिशं वैजयन्त च मालाम् ॥
रन्ध्रान्वेणोरघरसुधया पूरयन् गोपवृन्दै -
वृन्दारण्यं स्वपदरमणं प्राविशद्गीतकोतिः ॥ ५ ॥
इति वेणुरवं राजन्सर्वभूतमनोहरम् ॥
श्रुत्वा व्रजस्त्रियः सर्वा वर्णयन्त्योऽभिरेमिरे ॥ ६॥
अक्षण्वतां फलमिदं न परं विदामः सख्यः पशूननुविवेशयतोर्वयस्यैः ॥
वक्त्रं व्रजेशसुतयोरनुवेणु जुष्टं यैर्वा निपीतमनुरक्तकटाक्षमोक्षम् ॥ ७ ॥
चूतप्रवालब हंस्तब कोत्पलाब्ज मालानुपृक्तपरिधानविचित्रवेषौ ॥
मध्ये विरेजतुरलं पशुपालगोष्ठ्यां रङगे यथा नटवरौ क्व च गायमानौ ॥८॥
गोप्यः किमाचरदयं कुशलं स्म वेणुर्दामोदराघरसुधामपि गोपिकानाम् ॥
भुक्ते स्वयं यदवशिष्टरसं ह्रदिन्यो हृष्यत्त्वचोऽश्रु मुमुचुस्तरवो यथाऽऽर्याः ॥९॥
वृन्दावनं सखि भुवो वितनोति कीर्ति यद् देवकीसुतपदाम्बुजलब्धलक्ष्मि ||
गोविन्दवेणुमनुमत्तमयूरनृत्यं प्रेक्षाद्रिसान्वपरतान्यसमस्तसत्त्वम् ॥ १० ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP