पुराणकाव्यस्तोत्रसुवा ।
अहोरात्रमयो लोके जरारूपेण सञ्चरेत् ||
मृत्युप्रेसति भूतानि पवनं पत्नगो यथा ॥ २९॥
गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतो न चेत् ॥
सर्वसत्त्वहितार्थाय पशोरिव विचेष्टितम् ॥३०॥
अतिहितविचारशून्यबुद्धेः
श्रुतिसमये बहुभिवितकतस्य ॥
उदरभरणमात्रतुष्टबुद्धेः
पुरुषपशो: पशोच को विशेषः ||३१||
शौर्ये तपसि दाने च यस्य न प्रथितं यशः ॥
विद्यायामर्थलाभे वा मातुरुच्चार एव सः ॥ ३२॥
यज्जीव्यते क्षणमपि प्रथितं मनुष्य-
विज्ञानविक्रययशोभिरभग्नमानंः ॥
तन्नाम जीवितमिति प्रवदन्ति तज्ज्ञा:
काकोऽपि जीवति चिरं च बलि च भुक्ते ॥ ३३॥
कि जीवितेन धनमानविर्वाजतेन
मित्रेण कि भवति भीतिसशंकितेन ॥
सिंहव्रतं चरत गच्छत मा विषादं
काकोऽपि जीवति चिरं च बलि च भुङ्क्ते ||३४||
यो वात्मनोह न गुरौ न च भृत्यवर्गे
दीने दयां न कुरुते न च मित्रकार्ये ||
कि तस्य से वितफलेन मनुष्यलोके
काकोऽपि जीवति चिरं च बॉल च भुक्ते ॥ ३५॥
यस्य त्रिवर्गशून्यानि दिनान्यायान्ति यान्ति च ॥
स लौहकारभस्त्रेव श्वसन्नपि न जोवति ॥ ३६॥
स्वाधीनवृत्तेः साफल्यं न पराधोनवत्तिता ॥
ये पराधीनकर्माणो जीवन्तोऽपि च ते मृताः ॥३७॥
१. 'सञ्जीव्यते' इ. पा.