English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 30

Puran Kavya Stotra Sudha - Page 30

Puran Kavya Stotra Sudha - Page 30


व्यवहारचातुर्ययोगः
बृहस्पतिनीतिसारः
नदी पातयते कूलं नारी पातयते कुलम् ॥
नारीणां च नदीनां च स्वच्छन्दा ललिता गतिः ॥ ३९ ॥
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ॥
नान्तकः सर्वभूतानां न पुंसां वामलोचनाः ॥ ४० ॥
न तृप्तिरस्ति शिष्टानामिष्टानां प्रियवादिनाम् ॥
सुखानाञ्च सुतानाञ्च जीवितस्य वरस्य च ॥ ४१ ॥
राजा न तृप्तो धनसञ्चयेन
न सागरस्तृप्तिमगाज्जलेन ॥
\न पण्डितस्तृप्यति भाषितेन
तृप्तं न चक्षुर्नृपदर्शनेन ॥ ४२ ॥
स्वकर्मधर्माजितजीवितानां
शास्त्रेषु दारेषु सदा रतानाम् ॥
जितेन्द्रियाणामतिथिप्रियाणां
गृहेऽपि मोक्षः पुरुषोत्तमानाम् ॥ ४३ ॥
मनोऽनुकूलाः प्रमदा रूपवत्यः स्वलङ्कृताः ॥
वास: प्रासादपृष्ठेषु स्वर्गः स्याच्छुभकर्मणः ॥ ४४ ॥
न दानेन न मानेन नार्जवेन न सेवया ॥
न शस्त्रेण न शास्त्रेण सर्वथा विषमा स्त्रियः ॥ ४५ ॥
शनैविद्या शनैरर्थाः शनैः पर्वतमारुहेत् ||
शनैः कामं च धर्मं च पञ्चैतानि शनैः शनैः ॥ ४६ ॥
शाश्वतं देवपूजादि विप्रदानं च शाश्वतम् ||
शाश्वतं सगुणा विद्या सुहृन्मित्रं च शाश्वतम् ॥ ४७ ॥
ये बालभावान्न पठन्ति विद्यां
ये यौवनस्था ह्यधनात्मदाराः ॥
ते शोचनीया इह जीवलोके
मनुष्यरूपेण मृगाश्चरन्ति ॥ ४८ ॥
पठने भोजने चित्तं न कुर्याच्छास्त्रसेवकः ॥
सुदूरमपि विद्यार्थी व्रजेद्गरुडवेगवान् ॥ ४९ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP