English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 206

Puran Kavya Stotra Sudha - Page 206

Puran Kavya Stotra Sudha - Page 206


स्तो त्र यो गः-
:- विष्णुसहस्रनामस्तोत्रम्
१९१
क्षोभकश्चैव (६४०) विषयक्षोभकस्तया ||१०७|| ब्रह्मणः क्षोभकश्चैव रुद्रस्य
क्षोभकस्तथा । अगम्यश्चक्षुरादेश्च श्रोत्रागम्यस्तथैव च ॥ १०८ ॥ त्वचा न
गम्यः कूर्म्मश्च जिह्वाऽग्राह्यस्तथैव च | घ्राणेन्द्रियागम्य एव वाचाऽग्राह्य-
स्तथैव च (६५०) ।। १०९ ॥ अगम्यश्चैव पाणिभ्यां पादागम्यस्तथैव च ।
अग्राह्यो मनसश्चैव बुद्धया प्राह्यो हरिस्तथा ॥ ११० ॥ अहं बुद्धया तथा
ग्राह्यश्चेतसा ग्राह्य एव च । शङ्खपाणिश्चाव्ययश्च गदापाणिस्तूचैव च
(६६० ) ॥ १११ ॥ शार्गपाणिश्च कृष्णश्च ज्ञानमूत्तिः परन्तपः । तपस्वी
ज्ञानगम्यो हि ज्ञानी ज्ञानविदेव च ॥ ११२ ॥ ज्ञेयश्च ज्ञेयहीनश्च (६७०)
ज्ञप्तिश्चैतन्यरूपकः | भावो भाव्यो भवकरो भावनो भवनाशनः ॥ ११३ ॥
गोविन्दो गोपतिर्गोपः (६८०) सर्वगोपोसुखप्रदः । गोपालो गोपतिश्चैव गोमति-
गोधरस्तथा ॥ ११४ ॥ उपेन्द्रश्च नृसिंहश्च शौरिश्चैव जनार्दनः । आरणेयो
(६९० ) बृहद्भानुबृहद्दीप्तिस्तथैव च ॥११५॥ दामोदरस्त्त्रिकालश्च कालज्ञः
कालवजितः । त्रिसन्ध्यो द्वापरं त्रेता प्रजाद्वारं (७००) त्रिविक्रमः || ११६ ॥
विक्रमो दण्डहस्तश्च ह्येकदण्डी त्रिदण्डधृक् । सामभेदस्तथोपायः सामरूपो
च सामगः ॥११७॥ सामवेदो (७१०) ह्यथर्वश्च सुकृतः सुतरूपणः । अर्थव-
वेदविच्चैव ह्यथर्वाचार्य्य एव च ॥ ११८॥ ऋगुष्पी चैव ऋग्वेद ऋग्वेदेषु प्रति-
ष्ठितः । यजुर्वेत्ता यजुर्वेदो ( ७२०) यजुर्वेदविदेकपात् ॥ ११९ ॥ बहुपाच्च
सुपाच्चैव तथैव च सहस्रपात् । चतुष्पाच्च द्विपाच्चैव स्मृतिर्न्यायोपमो बली
( ७३० ) ॥ १२० । संन्यासी चैव संन्यासश्चतुराश्रम एव च । ब्रह्मचारी
गृहस्थश्च वानप्रस्थश्च भिक्षुकः ॥ १२१ ॥ ब्राह्मणः क्षत्रियो वैश्यः ( ७४०)
शूद्रो वर्षस्तथैव च । शीलदः शीलसम्पनो दुःशोलपरिवर्जितः ॥१२२॥ मोक्षोऽ-
ध्यात्मसमाविष्टः स्तुतिः स्तोता च पूजकः | पूज्यो (७५०) वाक् करणं चैव
वाच्यश्चैव तु वाचकः ||१२३॥ वेत्ता व्याकरणं चैव वाक्यं चैव च वाक्यवित् ।
वाक्यगम्यस्तीर्थवासी (७६०) तीर्थस्तीर्थी च तीर्थवित् ॥ १२४|| तीर्थादिभूतः
सांख्यश्च निरुक्तं त्वधिदैवतम् । प्रणवः प्रणवेशश्च प्रणवेन प्रवन्दितः (७७०)
|| १२५ ॥ प्रणवेन च लक्ष्यो वै गायत्री च गदाधरः । शालग्रामनिवासी च
(७८०) शालग्रामस्तथैव च ॥१२६|| जलशायी योगशायी शेषशायी कुशेशयः
। महोभर्त्ता च (७९०) कार्य्यं च कारणं पृथिवीधरः || १२७ || प्रजापतिः
शाश्वतरद काम्यः कामयिता विराट् | सम्राट् पूषा (८००) तथा स्वर्गो

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP