English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 42

Puran Kavya Stotra Sudha - Page 42

Puran Kavya Stotra Sudha - Page 42


व्यवहारचातुर्ययोगः –बृहस्पतिनीतिसारः
अतो न शोचामि न विस्मयों मे
ललाटलेखा न पुनः प्रयाति ॥ ३२ ॥ १
सर्पः कूपे गजः स्कन्धे बिल आखुश्च धावति ||
नरः शीघ्रतरादेव फर्मणः कः पलायते ॥ ३३ ॥
नाल्पा भवति विद्या दीयमानापि वर्द्धते ॥
कूपस्थमिव पानीयं भवत्येव बहूदकम् ॥ ३४ ॥
येडर्या धर्मेण ते सत्या येऽधर्मेण गताः श्रियः ॥
धर्मार्थो च महॉल्लोके तत्स्मृत्वा ह्यर्थकारणात् ॥ ३५ ॥
अन्नार्थी यानि दुःखानि करोति कृपणो जनः ॥
तान्येव यदि धर्मार्थो न भूयः क्लेशभाजनम् ॥ ३६ ॥
सर्वेषामेव शौचानामनशौचं विशिष्यते ॥
योऽन्नार्थेः शुचिः शौचान्न मृदा वारिणा शुचिः ॥ ३७॥
सत्यं शौचं मनः शौचं शौचमिन्द्रियनिग्रहः ||
सर्वभूते दया शौचं जलशौचं च पञ्चमम् ॥ ३८ ॥
यस्य सत्यं च शौचं च तस्य स्वर्गो न दुर्लभः ||
सत्यं हि वचनं यस्य सोऽश्वमेधाद्विशिष्यते ॥ ३९ ॥
मृत्तिकानां सहस्रेण चोदकानां शतेन हि ||
न शुद्धयति दुराचारो भावोपहतचेतनः ॥ ४० ॥
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ||
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ ४१ ॥
न प्रहृष्यति संमानैः नावमानैः प्रकुप्यति ॥
न क्रुद्धः पुरुषं ब्रूयादेतत्साधोस्तु लक्षणम् ॥ ४२ ॥
दरिद्रस्य मनुष्यस्य प्राज्ञस्य मधुरस्य च ॥
काले श्रुत्वा हितं वाक्यं न कश्चित्परितुष्यति ॥ ४३ ॥
न मन्त्रबलवीर्येण प्रज्ञया पौरुषेण च ||
अलभ्यं लभ्यते मयैस्तत्र का परिवेदना ॥ ४४ ॥
अयाचितो मया लब्धो पुनर्मत्प्रेषणाद्गतः ॥
यत्रागतस्तत्र गतस्तत्र का परिवेदना ॥ ४५ ॥
१. 'यदस्मदीयं न तु तत्परेषाम्' इ. पा.- an additional line.
२७

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP