English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 98

Puran Kavya Stotra Sudha - Page 98

Puran Kavya Stotra Sudha - Page 98


व्यवहारचातुर्ययोगः- साधुवृत्तिः
५५४ सत्येनार्कः प्रतपति सत्ये तिष्ठति मेदिनी ॥
सत्यं चोक्तं परो धर्मः स्वर्गः सत्ये प्रतिष्ठितः ॥ ४३ ॥
५५५ चक्षुः पूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् ||
सत्यपूतां वदेद्वाणीं बुद्धिपूतञ्च चिन्तयेत् ॥ ४२ ॥
५५६ सत्यं मूलं ब्राह्मणानां विष्णुः सत्ये प्रतिष्ठितः ॥
तस्य मूलं तपो राज्ञि राज्यं सत्ये प्रतिष्ठितम् ॥
नाहं मिथ्या प्रवक्ष्यामि कदाचिदपि सुन्दरि ॥ ९९ ॥
५५७ सत्ये प्रतिष्ठितो लोको धर्मः सत्ये प्रतिष्ठितः ॥
उदधिः सत्यवाक्येन मर्यादां न विलङघयेत् ॥ ४३ ॥
५५८ विष्णवे पृथिवों दत्त्वा बलिः पातालमाश्रितः ॥
सत्यवाक्यं समाश्रित्य न निष्कामति दैत्यपः ॥ ४४ ॥
५५९ यः स्वं वाक्यं प्रतिज्ञाय न करोति यथोदितम् ॥
कि तेन न कृतं पापं चौरेणाकृतबुद्धिना ॥ ४५ ॥
५६२
ये साधुतामनुपकारिषु दर्शयन्ति ॥
आत्मप्रयोजनवशात्कृतछिन्न देहाः
आत्मगुण (६)
साधुवृत्तिः
५६० सुजनो न याति विकृति परहितनिरतो विनाशकालेऽपि ॥
छिन्नोऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥ २३ ॥
५६१ दैवं परं विनश्यति तनुरपि न श्रीनिवेदिता सत्सु ॥
अवशिष्यते हिमांशोः सँव कला शिरसि या शंभोः ॥ २४ ॥
ते साघवो भुवनमण्डलमौलिभूता
८३
Ibid, ४१.
पूर्वापकारिषु खलोऽपि हितानुरक्तः ॥ २५ ॥
५६३ न ह्यसञ्चितपुण्यानां सद्भिरेकत्र सङ्गमः ॥ ३४ ॥
५६४ कुतश्चित्कारणात्साघोः क्रुद्धस्य प्रकृतिः क्षमा ॥
हुताशनप्रतप्तस्य शीतत्वमिव चाम्बुनः ॥ ५० ॥
अतः क्षमां विधायाशु विधेह्यस्मिन्ननुग्रहम् ||
बले विवेकरहिते क्षमासारा हि साधवः ।। ५१ ॥
वराह, १३७.
स्कांद, नागरखं., ५१.
पद्म, उ.खं., ७.
Ibid, १२८.
Tbid, २१५.

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP